________________
अञ्जना चरित्रम्
चतु
लक्ष्मीवती महासती । धर्मभ्यानमनोभावा, गुर्वादिसेवनोत्सुका ॥९३॥ गृहचैत्ये च या स्वस्य, जिनबिम्ब सरत्नकम् । संस्थाप्य पूजयामास. त्रिकालमतिभक्तितः॥ ९४ ॥ स्वर्णोदरी परञ्चाभदावती खलाशया । आदाय जिनबिम्ब सा. प्राक्षिपत्सरोद ॥९५।। तदाऽनगारिणां काचिज्जया नाम्नी तपस्विनी । विहरन्त्याययौ तत्र, दृष्टा सा च तथाकरी ।। ९६ ॥ आह सा सान्त्वया वाचा, भद्रे ! किं हा त्वया कृतम् । वीतरागप्रभोर्बिम्बे केयेय, तव हा हता ॥९७ ।। भगवद्विम्मतिरोधाना, मौढ्यादागा त्वया भवे । विवेकरहिते ! चात्मा दुःखभोक्ता कृतो भृशम् ।। ९८॥ स्वल्पाप्याशातना मुग्धे, बह दःस्वाय जायते । प्रतिमेषा प्रभोः साक्षाद्वाच्यं तत्र च किं खले ! ॥ ९९॥ ___ जयश्रीवचनैः साऽपि, राज्ञी स्वर्णोदरी तदा । अकृत्यकरणाद्भीरुः, पश्चात्तापमथाकरोत् ॥ १०० ॥ आत्मानं बहु निन्दन्ती, सद्य एव ततः प्रभोः । बिम्बमादाय प्रक्षाल्य, क्षमाप्य च मुहुर्मुहुः ॥ १०१॥ यत्रासीत्तत्र नीत्वा च, यथापूर्वमतिष्ठिपत् । स्वदोषनिन्दनेनापि, चात्मा भवति निर्मलः ॥ १०२ ॥ तदिनात्सा च सम्यकत्व-धारिणी शुद्धचारिणी । त्रिकशुद्धथा शुभावस्था, जैनधर्ममपालयत् ॥ १०३ ॥ पूर्णायुषि ततो मृत्वा, शुभध्यानेन सा शुभा। सौधर्मकल्पके जज्ञे, देवीत्वेन महीयसि ॥१०४ ॥ ततश्च्युत्वा सखी सेय, महेन्द्रक्षितिपाङ्गजा । जज्ञे च वृत्तमेतत्ते, मयाऽऽख्यातं परं शृणु ॥१०५॥ निन्द्यस्थाने प्रभोम्बिं, प्राक्षिपदीयया पुरा । तत्कुकृत्य फलं सम्यकगधुना भुज्यतेनया ॥१०६॥ अनुमोदयित्री पुरा त्वञ्च, तथाऽस्याश्च सहायदा । एतयातः समं दुःखं त्वयाप्यनुभूयते ॥१०७॥
दुष्टकर्मफलं प्रायो, भुक्तमेवाशुभोदयम् । जिनधर्ममतः सेव्यः, प्रतिभवसुखप्रदः ॥ १०८ । आगत्य मातुलश्चैव-मअनाया वितर्कितः । नेष्यति स्वगृहं स्वस्था, तत्र स्थास्यति ते सखी ॥१०९।। अचिरेणैव संयोगः, सह पत्या च मोददः । भविष्यति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com