SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ का ANCIENT JAINA HYMNS ये जानन्ति जपन्ति सन्ततमभिध्यायन्ति मन्त्रद्विकं. तेषां साम्राज्यलक्ष्मीः कृतकलनिलया जायते संमुखीना । सप्ताङ्गा; गाङ्गनीराकृतिविशदयशोराशिरुज्जम्भते;ऽस्मि लोके सम्पूर्णकामोऽमितगुणनिकरस्थैर्यमालम्बते ते ॥११॥ कृत्वालीके च वामेतरभुजयुगले नाभिदेशे च वक्त्रे शस्ते हस्तद्वये वा ह्यभिमतफलदं मूनि संस्थापयित्वा । पार्श्व शर्खेश्वराख्यं सुरतरुकरणिं ये जपन्तीह शश्व ते भव्या यान्ति सिदि तनुतरदुरिता द्वित्रकैः सद्भवैश्च ॥१२॥ दुर्ध्यानद्रुमखण्डखण्डनखटो दुर्दम्यदन्ताबलः __ श्रीधीराद्विमलप्रबोधकमलप्रीतिप्रदानोज्ज्वलः । सयानप्रबलप्रतापबहुलज्वालावलीधूमलो ध्वस्ताशेषखलः खलीकृतमलः सिद्धयङ्गनाकामलः ॥१३॥ मूदिन म्फारफणीन्द्रजालजटिलोऽक्षुद्रक्षमाकन्दलः सम्यगज्ञानजलप्रवाहपयसा प्रक्षालितक्ष्मातलः । धैर्यस्वर्ग्यचलः सुसाधितकलो दौर्गत्यवारार्गलो दत्ताभीष्टफलः पुनातु भुवनं पावों घनश्यामलः ॥१४॥ पार्श्व त्वत्पदपद्मपूजनकृते सत्केतकीनां वने तीक्ष्णैरुत्कटकण्टकैश्च सततं विध्यन्ति येषां कराः । तेषां चारुपतिवरेव भविनां चक्रित्वशक्रश्रियः स्वैरस्थैर्यतया चलत्वरहिता भव्यं भजन्ते प्रभो ॥१५॥ साफल्यं जनुषो ममाद्य सुतरां जातं प्रशस्यो दिनः श्लाघ्यं जीवितमद्य हृद्यसफलश्रेयानयं स क्षणः । जाता कृत्यकृतार्थिनी बहुफला सा धारिका कारिका सौख्यस्यैव यदीश शर्मकृदिदं त्वदर्शनं प्रापितम् ॥१६॥ 116 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy