________________
ANCIENT JAINA HYMNS च्युत्वा ततो हरिकुले विपुलेऽवतीर्णः
श्रीमत्सुमित्रनपवंशविशेषकस्त्वम् । पद्मात्मजः प्रवरराजगृहे; गरीयः
पुण्यास्पदं जनिमहं तव तेनुरिन्द्राः ॥ ५ ॥ आयुस्त्रिंशत्रिभुवनविभो वत्सराणां सहस्रा
देहोच्चत्त्वं तव जिनपते विंशतिः कार्मुकाणि । आद्यज्ञानत्रयपरिगतः श्यामवर्णाभिरामो
राजत्वं ते मगधविषयं कूर्मलक्ष्मा व्यधास्त्वम् ॥ ६ ॥ उत्सृज्यातः पुरधनमहाराज्यराष्ट्रादि सर्व
प्रवज्य स्रागधिगतमनःपर्ययज्ञानशाली । हत्वा मोहाद्यरिकुलबलं सारखादैस्तपोभि
र्लोकालोकाकलनकुशलं कैवलं लेभिषे त्वम् ॥ ७ ॥ देहः स्वेदाममलविकलोऽतुल्यरूपः सुगन्धः
श्वासः पङ्केरुहपरिमलः प्रोज्ज्वले मांसरक्ते । चर्माक्षाणामविषयमिहाहारनीहारकृत्यं
चत्वारोऽमी लसदतिशया जामनस्ते सहोत्थाः ॥ ८ ।। .देवादीनां समवसरणे संस्थितिः कोटिकोटे
र्वाणी तिर्यग्नरसुरसदोबोधिदानप्रवीणा । अर्कज्योतिर्विजयि विमलं देव भामण्डलं ते
मौलेः पृष्ठे स्फुरति जगतो बाढमाश्चर्यकारि ॥ ९ ॥ एकैकस्यां दिशि शतमितकोशमध्ये जनानां
__ न स्युर्मारि वनभयदा स्वस्य चक्रोत्थभीतिः । दुर्भिक्षोग्रामयभरमहावृष्टयवृष्टीतिवैरं
स्वामिन् कर्मक्षयसमुदिता एवमेकादशैते ॥ १० ॥
94
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com