________________
अभ्रंलिहविहाराप्रध्वजांशुकहतातपम् । रुप्यस्वर्णमणिव्याप्तचतुष्पथविराजितम् ॥३॥
(युग्मम् ।) तत्र राजा [प्रशस्ति श्रीजसवंताभिधो नृपः । यामश्रीशत्रुशल्याह्वकुलांबरनभोमणिः ॥४॥ यत्प्रतापाग्निसंतापसंतप्त इव तापनः । निर्माति जलधौ नित्यमुन्मजननिमज्जने ।।५।।
(युग्मम् ।) बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधीशा आर्य्यरक्षितसूरयः ।।६।। तत्पट्टपंकजादित्याः सरिश्रीजयसिंहकाः । श्रीधर्मघोषसूरींद्रा महेंद्रात्सिहसूरयः ॥७॥ श्रीसिंहप्रभसूरीशाः सूरयोऽजितसिंहकाः । श्रीमद्देवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥८॥ श्रोसिंहतिलकाह्वाश्च श्रीमहेन्द्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्या बभूवुः सूरयस्ततः ॥९॥ समग्रगुणसंपूर्णाः सूरिश्रीजबकीर्तयः तत्पदेऽथ सुसाधुश्रीजयकेसरिसरयः ॥१०॥ श्रीसिद्धांतसमुद्राख्यसूरयो भूरिकीर्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥११॥ श्रीमद्गुणनिधानाख्यखरयस्ततपदेऽभवन् । युगप्रधानाः श्रीमंतः खरिश्रोधर्ममूर्तयः ॥१२॥ तत्पट्टोदयशैलाग्रप्रोद्यत्तरणिसंनिभाः । जयंति सरिराजः श्रीयुजः कल्याणसागराः ॥१३॥ श्रीनव्यनगरे वास्युपकेशज्ञातिभूषणः । इभ्यः श्रीहरपालाह्न आसील्लालणगोत्रकः ॥१४॥ हरीयाख्योऽथ तत्पुत्रः सिंहनामा तदंगजः । उदेसीत्यथ तत्पुत्रः पर्वताह्वस्ततोऽभवत् ।।१५।। वच्छनामाऽथ तत्पत्नी चाभूद्वाच्छलदेविका । तत्कुक्षिमानसे हंसतुल्योऽथाऽमरसंज्ञकः ॥१६॥ लिंगदेवीति तत्पत्नी तदौरस्यास्त्रयो वराः । जयंति श्रीवर्धमानचांपसीपद्मसिंहकाः ॥१७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com