________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ अष्टमी वाचना स्थविरावली व्याख्यायते ।
ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥१॥ से केणटेणं भंते! एवं वुच्चइ-समणस्त भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥२॥ तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य नव गणाः, एकादश गणधराश्च अभवन् । 'से केण'त्ति 'से' शब्दः, अथशब्दार्थः, केनार्थेन कारणेन हे भदन्त ! एवमुच्यते-गणा नव, गणधरा एकादश। कथम्? यतः-'जावइया जस्स गणा तावइया गणहरा तस्स'त्ति वचनात् , यस्य तीर्थङ्करस्य यावन्तोगणा भवन्ति तावन्तस्तस्य गणधरा भवन्ति । सर्वजिनानांगणधर-गणयोस्तुल्यत्वेऽपि श्रीवीरस्य कथम् एवम् ? तत्रोत्तरमाहअकम्पिता-ऽचलभात्रोरेकरूपैव वाचना जाता, एवं मेतार्य-प्रभासयोरपि; एकैव वाचना प्रजाता। समुदायो हि गणः, इति नव गणाः ॥
समणस्स भगवओ महावीरस्स जिट्टे इंदभूई अणगारे गोयमगुत्ते णं पंच समणसयाई वाएइ,
For Private and Personal Use Only