SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र उदघोषणा। उद्घोषणा भोः! भोः! भव्याः! श्रूयताम् श्रूयताम् अशेषकर्मनिकन्दिनि,सकलमालकारिणि श्रीपर्युषणापर्वणि समागते सति परनिन्दा-द्वेष-मात्सर्यविषय-कषाय-प्रमादादित्यागेन सर्वैः सह मैत्रीप्रमोदादिभावयुक्तेन, संवरनिर्जरासहितेन च अर्हत्प्रभृतिविंशतिस्थानकानि द्रव्यभावाभ्यां यथाशक्ति आराधनीयानि, परं च देवगुरुधर्मस्याऽवर्णवादादिकथनेन कलह-कषाय-वैर-विरोधाऽऽदिपञ्चाऽऽश्रवकर्मबन्धकारणानि संसारवर्द्धन-दुर्लभबोधि-हेत्वादीनि विशेषेण निराकरणीयानि, पुनरपि अस्मिन् पर्वणि समागते सर्वकर्मक्षयकारकम् , मङ्गलनिधानम् , स्वर्गाऽप|वर्गहेतुः, शासननायक-श्रीवर्धमानस्वामिनः चरित्रं विधि-उपयोगादियुक्तेन शुभभावेन श्रवणीयम् ; तच्च अनन्तकर्महासकम् , अनन्तपुण्यवृद्धिकरं च भवति, तत्र केचित् साधवः-तस्मिन् व्याख्याने द्रव्यगच्छपरंपराऽऽप्रहेन"निच्चगोत्रविपाकरूपस्य, अतिनिन्द्यस्य, आश्चर्यरूपस्य, गर्भापहारस्याऽपि कल्याणकथनं अनुचितम्" इत्यादि-वाक्यैः श्रीवर्धमानस्वामिनः षट्कल्याणकादिनिषेधकथनं मङ्गलिके पर्वणि अमङ्गलरूपम् , कषायोत्पादकम् , तीर्थंकरस्यावर्णवादरूपं भववृद्धिकरम् च कुर्वति, तद् असत्यं यत:-कल्पा-ऽऽचाराङ्ग-स्थानाङ्गादिषु आगमेषु, तथा आवश्यकनियुक्ति-चूर्णि-महापुरुषचरित्र-श्रीवीरचरित्रादिप्राचीनसिद्धान्ते तीर्थकर-णधर-पूर्वधर-पूर्वाचायः श्रीवीरस्य षट् कल्याणकानां प्रतिपादितत्वात् । तथा श्रीखरतरगच्छाधीश्वर नवाङ्गीवृत्तिकारेण श्रीमदूअभयदेवसूरिणाऽपि श्रीस्थानाङ्गसूत्रवृत्तौ श्रीपद्मप्रभ-सुविधि-शीतला| दिपार्श्वनाथपर्यन्तानां त्रयोदशतीर्थकराणां पञ्चमे कल्याणके निर्वाणम् उक्तं तथैव श्रीवीरस्य पञ्चमे कल्याणके केवलज्ञानोत्पत्तिदर्शिता, तथा ॥१॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy