SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ * व्यवहाररत्नम् * तृतीयैकादशी तथा ॥ पंचमी सप्तमीचैव प्रशस्तोद्वाहकर्मणि ॥ २॥ वर्जनीया कुहू रिक्ता शेषास्तु मध्यमाःस्मृताः । कुजार्कशनिवाराश्च परित्याज्याः प्रयलतः॥३॥ वारखेलां च भद्रां च मासान्तदिवसानिच ।। दग्धातिथिं च भान्तं च यत्नतः परिवर्जयेत् ॥ ४॥ जन्मक्षपुष्यनक्षत्रं ग्रहोत्पातयुतं दिनम् ॥ षट्काष्टकं च दम्पत्यो रुदाहे संत्यजेद्बुधः ॥ ५॥ याम्यायने विमार्गे च परित्यज्य विचक्षणैः ॥ सौम्यायने विचैत्रे तु प्रकुर्यात् पाणिपीड़नम् ॥ ६॥ रोहिण्युत्तररेवत्यो मुलं स्वाती मृगों मघा ।। अनुराधा च हस्तश्च विवाहे मंगलप्रदाः ॥७॥ कन्यामिथुनमीनेषु वृषचापतुला सु च ।। उदाहः सुप्रशस्तः स्यादिति प्राह पराशरः ।। अथ गणविचारः * हस्तः पुष्यः श्रुतिः स्वाती मृगः पौष्णः पुनर्वसू । अनुराधाश्विनीचैव कथितो देवतागणः ॥९॥ त्रिपूर्वा व्युत्तराप्याा रोहिणी भरणी तथा ॥ मनुष्याख्यो गणः प्रोक्तो ज्योतिश्शास्त्रविशारदैः ।। १० । मघाश्लेषा विशाखा च कृत्तिका शततारकाः ॥ चित्राज्येष्ठा धनिष्ठा च मुलं रक्षोगणः स्मृतः ॥११॥ स्वगणे परमा प्रीति मध्यमा देवमर्त्ययोः । मर्त्यराक्षसयोर्मृत्युः कलहो देवरक्षसोः ॥१२॥ लग्नेषु इतिशेषः । २ उत्तरायणे। ३ शतभिषा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034659
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath Sharma
PublisherKanhaiyalal Krushnadas
Publication Year1918
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy