________________
२२ * व्यवहाररत्नम् * कृन्तंति मूलतः ॥ ६७ ।। वृक्षप्रासादिनीच्छाया स. ञ्छन्नं यदि मंदिरम् ।। अविरेणैव कालेन उदासो जायते ध्रुवम् ॥ ६८ ॥ यामादूर्धन्तु या छाया वृक्षप्रासादसम्भवा ॥ वर्जयेत्तां प्रयत्नेन यावदै प्रहरद्धयम् ।। ६९ ।। प्रथमान्तयामवज दित्रिप्रहरसम्भवा ।। छायावृक्षध्वजादीनां सदा दुःखप्रदायिनी ॥ ७ ॥ * अथ वृक्षरोपणदिवसमाह * शुक्लपक्षे तिथौ शस्तेशुक्रे चन्द्र गुरावपि । तरूणां रोपणं शस्तं ध्रुवक्षिप्रमृदूडुभिः ॥ ७१ ॥ शीम्यन्तास्तिथयः कुजार्कशनयो वाराश्च षष्ठीयुता मासः प्रौष्ठपदस्त्रिविक्रममुखं नक्षत्रषदकं तथा ॥ त्यक्त्वै तान वृष सिंहवृश्चिकघटेवङ्गेषु भद्रां विना गर्गाद्या कदलीक्षुरोपणविधिशस्तं जगुः सर्वदा ॥ ७२ ॥ ॐ इति मैथिल श्रीभानुनाथदैवज्ञविरचिते व्यवहाररत्ने गृहारम्भादिप्रकरणम् * ॥२॥ विनाहलप्रवाहायेर्ननिर्वाहः कलौ युगे ॥ चतुर्णामपिवर्णानामतस्तत्प्रथमं ब्रुवे ॥१॥ * अथ हलप्रवाह-बीजवपन-सस्यरोपण-प्रथमसस्यछेदनेषु तिथिशुद्धिमाह ® सप्तम्येकादशीचैव पञ्चमी दशमी तथा ॥ त्रयोदशी तृतीया च प्रशस्ता हलकर्मणि ॥ २॥ मृदुध्रवक्षिपचरेषु मूलमघाविशाखासहितेषु
१ वासोच्छेदः । २ एकादशी पञ्चम्याद्याः। ३ बग्नेषु । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com