________________
* व्यवहाररत्नम् *
ऋक्षान्तं ग्रामनक्षत्रतः सदा ।। १६ ॥ * अथग्रामनाम्नोर्वर्गविचारः * स्ववर्ग द्विगुणी कृत्य परवर्गेण योजयेत् ।। अष्टभिश्च हरेद्भागं योऽधिकः स ऋणी भवेत् ।। १७॥ * अथ वर्गविचारः अवर्गात्तार्यमार्जारसिंहश्वासर्पमुषकाः ॥ गजो मृगश्च वर्गेशाः स्ववर्गात्पञ्चमो रिपुः ।। १८॥ स्वके स्वके च ते स्थाने सर्वे कल्याणदायकाः ।। अन्यद्धिताहितं तेषां लौ. किकव्यहारतः ॥ १९॥ * अथैषां शरानाह * वसु भूतरसा वेदो मुनिचन्द्रत्रियुग्मकम् ॥ पूर्वादिक्रमतो ज्ञेयं वर्गोपरि दिगष्टके ।। २० ॥ * अथवास्तौकस्यान्दिशि वस्तव्यं तदाह * ग्रामस्यापि दिशः पुं. सोवर्गाहूं वर्तुलीकृतं ।। वसुना भागमाहृत्त्य सूर्याधं दिकफलं वदेत ॥२१ ।। सौम्यादशा प्रशस्ता स्यादसौम्या गर्हिता सदा ।। एवं दशाविचारः स्यान्मध्यमागीष्पतेःस्मृता ॥२२॥ अथ गृहारम्भे मासावे. चारः * वैशाखे श्रावणे मार्गे फाल्गुने च विशेषतः॥ गृहारम्भः प्रशस्तः स्यान्मध्यमः कार्तिके शुचौ ।।२३।। परिशेषास्तु ये मासा ये च न्यूनाधिमासकाः ॥ तेसर्वे वर्जनीयाः स्युगुहारम्भे विचक्षणः ॥२४॥ निषिद्धेपि हि मासादौ सानुकूलेशुभे दिने ॥ तृणवस्त्रगृहारम्भे
१ अ-क-च-र-त-प-य-शा अष्टौवर्गाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com