________________
चतुर्थः परिच्छेदः ।
चूतस्याम्रस्य मुकुलं पुष्पोद्मं ईषत् दृष्ट्वा काचित्सखी विरहिणी सती सख्याः संमुख पश्यति । सखी प्रति दर्शयित्वा कंकलितरुरशोकवृक्षः शिरसा प्रणतः । चूतश्चरणे. नाहतः । तत्कुतः इति वो विचारणीयः भावोऽयं गूढः । अत्र भावः श्लोकमध्ये लिखितो नास्ति । किंतु हृदि वर्तते । स चायम् । आने मुकुलदर्शनाद्विरहिण्या विरहो दीपितः । ततो दुःखं कुला आम्रस्तया चरणेन हतः। तथा कंकलितफरप्रफु. ल्लितत्वात्स्वसदृशः प्रणतोऽयं हेतुझयते । यस्याः भाषाया अर्थान्तरं लिख्यते । ईषत् दृष्ट्रा चूतमुकुलं विरहिणीं सखी प्रेक्ष्य सखीभिरशोकवृक्षो नमितः ।चूतः पादाहतः । तत्कस्माद्धेतोः । अशोके पुष्पिते सति सख्या प्रियः समेष्यति । अतः कारणात्प्रणतः । चूतदर्शने सति अस्याः सरकष्टं जातमिति कारणात् हतः । इति रागद्वेषहृद्यम् ॥ पिच्छन्तमणिमिसच्छं पिच्छिय वहूकया झतिति भिक्खयरं । दंसिय कयाइं सीसे कत्तो दो जाइकुसुमाइं ॥ १३ ॥ अन्यच्च हृद्यं कथयति लौकिकभाषया-पिच्छन्तमित्यादि । व्याख्या-कयाचिद्वधूकया अनिमिषाक्षं निमेषरहितनेत्रं ईदृशं प्रेक्षन्तं विलोकयन्तं कंचन भिक्षाचरं भिक्षुकं पिच्छिय दृष्ट्वा झटिति शीघ्रं तया द्वे संख्ये जातीकुसुमे जपापुष्पे तं भिक्षुकं दर्शयिवा खशीर्षे कृते मस्तके धृत्वा तस्मै दर्शिते । कत्तो तत्कुतः कस्माद्धेतोरित्युच्यतामिति प्रष्टव्यम् । अत्राप्येवं हृद्यम् । भिक्षाचरेण सा मया सस्नेहं विलोकिता तया तु जातीकुसुमयोरुचस्थाने धारणेन निजजातिरेतत्कुसुमवदुज्वला । उभयपक्ष विशुद्धास्म्यहं खद्योग्या नास्मीत्युत्तरं दत्तम् । अकार्य नैव कर्तव्यम् । अयं भावोऽस्ति ।
इति कालसारादिहृद्यजातिः। रविसुतकृतगोकर्णः श्रुतिविषयगुणाम्बरो वनात्मधरः ।
नरकशिरा जगदखिलं चिरमव्यादसमरुक्पाणिः ॥ १४ ॥ अजगूढकम्॥ अजमारादिगूढकम् । अजश्च मारश्चाजमारौ तौ आदी येषां तेऽजमारादयः पदपादार्थाः ते एव गूढाः गुप्ताः यस्मिन् तत् अजमारादिगूढकम् । अस्यायं भावः-अजः शंभुस्तद्वाचीशब्दो गूढो यस्मिन् तत् अजगूढम् । मारः कामः स एव गूढो यस्मिन् तत् मारगूढम् । विभक्त्यन्तं पदं तदेव गूढं यस्मिन् तत्पदगूढं । श्लोकस्य चतुर्थो भागः पादः स एव गूढो यस्मिन् तत्पादगूढम् । अर्थः शब्दार्थः स एव गूढो यस्मिन् तत् अर्थगूढम् । इति पञ्च पृष्टानां उदाहरणानि वक्ष्यति । असमरूपाणिः। न समोऽसमो विषमः स चासौ रुक्चासमरुक शूलरोगः । त्रिशुलमित्यायुधविशेषः। सः पाणौ हस्ते यस्य सः शूलपाणिर्महादेवः । एवमेतन्नामगुप्तं ज्ञापितम् । त्रिपादो. गुढार्थविशेषणैरजो महादेवो वर्णितः । इति अजगूढकम् ॥
इयमेका जातिः। कुभ्रेमसुप्रीनयनाश्रयाशदग्धोन्मदा दर्दुरहर्षकाले । स्वजन्मभक्षप्रियभोजनाशा नृत्यन्ति भीमानुजगोजभाजः ॥१५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com