________________
तृतीयः परिच्छेदः। समरस्य संग्रामस्य कर्म कार्य तस्य आरम्भः । वीरपुरुषाणामिष्टो भवति । 'वीरपुरिसाणम्' इति चतुर्थ्यर्थे षष्ठी । मागधीभाषायां सकारस्य शकारः । तथा रेफस्य लकार इति भावः॥
कः स्तम्बेरमसुत इति विख्यातः पृच्छति स्फुटं हरिणः ।
अहिणवणयलीलन्नो असाहुणो केन उजुडइ ॥ ५५ ॥ कलभएण ॥ हे एण हे मृग । कलभः हस्तिपुत्रः। 'द्वात्रिंशद्वार्षिको हस्ती कलभः' इति । अत्रोत्तरार्धे मागधीभाषा-अहिणवेति । अस्य संस्कृतम्-अभिनवनगरीलोकोऽसाधोः केन त्यजति ॥ उत्तरम्-कलभएण करस्य दण्डस्य भयेन राज्ञो दण्डभयेन । लोका उज्जडन्ति न पश्यन्तीत्यर्थः । इति संस्कृतयुक्तमागधीभाषोदाहरणं दर्शितम् ॥
इति संस्कृतमागधिकम् । कोपारुणं किमरुणाग्रसरस्य पूर्व___ काष्ठाग्रनिष्ठिततनोरुपमानपात्रम् । पत्तं खणेण मरणं सअरस्स रणं
पुत्तेहि किं पविसिउण्ण तुरंगमत्थं ॥ ५६ ॥ कपिलपनं ॥ कपिलपनं कर्मर्कटस्य लपनं मुखम् । कपिवदनमप्यारक्तं भवति । अग्रे पैशाची भाषा-पत्तमित्यादि । अस्य संस्कृतम्-प्राप्तं क्षणेन मरणं सगरस्य राज्ञः पुत्रैः प्रविशद्भिरिह किं च तुरङ्गमार्थम् । उत्तरम्-कपिलपनं कपिलनाम्न ऋषे. वंदनं तत्प्रति प्रवेशं कुर्वद्भिस्तैः तत्क्षणात् एव मरणं प्राप्तमित्यर्थः । कपिलपमित्यत्र पैशाच्यां वनशब्दस्य आदिवकारस्य पकारत्वेन श्रवणात् पनमिति स्यात् ।।
कं प्रीणयन्ति जलदाः सैन्यं कीढपलायते समरात् ।
धत्ते शिरोधरा किं रुद्दशिरं केरिसं होइ ॥ ५७ ॥ चातकंकातरंकं ॥ चातकं बप्पीहं । कातरं भीरं । कं मस्तकं । चतुर्थपादे पैशाची-रुद्देति । अस्य संस्कृतम्-रुद्रशिरः कीदृशं भवति । उत्तरम्-चातकंकातरकं जातगंगातरंगं जाता उत्पन्नाः गङ्गायास्तरङ्गा लहयों यस्मिन् तत् । रुद्रस्य शिरसः सकाशादेव गङ्गा निःसरति । अत्र पैशाच्यां जकारस्थाने चकारः गकारस्थाने ककारो दर्शितः । इति संस्कृतयुक्तपैशाचीभाषोदाहरणं दर्शितम् ॥
इति संस्कृतपैशाचिकम् । को वर्णाद्यः क जलधिसुता कं च दीर्घा दिसंज्ञ
प्राहुर्बुद्धाः कमजयदसौ तार्किकैः के क्रियन्ते । आमच्यो विः कथय विदितं किं पदं हेतुवाचि
जा णची ए इमइ महिसा सावि बोल्लेइ कीसे ॥ ५८ ॥ अएचम्मारंवादावेहि ॥ अः अकारः मात्रिकायां द्विपञ्चाशद्वर्णेषु खराणां मध्ये प्रथमोऽकारः स्वर एवास्ति । यथा अइउण, ऋलक, इत्यादिषु पाठः । ए अः शब्दः कृष्णवाचकस्तस्मिन् ए कृष्णे। चं चकारं । मार कंदर्प। प्रायो जिनेनैव कंदो जितः। जिनस्य सर्वथापि स्त्रीसङ्गो नास्ति । अत एवेदमुक्तम् । वादाः अन्योन्यं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com