________________
तृतीयः परिच्छेदः । चत्वार्यराणि पादाभ्यां नेमिं पादद्वयेन च । लिखित्वा दक्षिणावर्त चक्रं प्रश्नमवेहि मे ॥ १० ॥ चक्रेण रथपादेन सदृशं श्लोकबन्धं विधाय प्रश्नः क्रियते । इत्यतश्चक्रप्रश्नम् ॥ कं चौरस्य च्छिनत्ति क्षितिपतिरनघः किं पदं वक्ति कुत्सां
क्षोणीसंबोधनं किं वदति कमलभूः का च विश्वं बिभर्ति । चक्राङ्गामन्त्रणं किं कथमपि सुजनः किं न कुर्यादनार्य
कीदृग्भोक्तुः पुरं स्यात्पयसि वद कुतो मीनपङ्किर्बिभेति ॥ ११॥ किं स्वच्छं शारदं स्याद्वदति वृषगतिः कोऽशुमाली पवित्रः
कोsस्मिक जीवनं कां विरचयति कविर्वह्निसंबोधनं किम् । नाकाङ्क्षन्ति स्त्रियः कं तनुरसुररिपोः कीदृशी कश्च मूकः
सम्यक्प्रीतिं तडागः प्रियतम तनुते कीदृशः कीदृशस्ते || १२ || करंकुकोककुररकलहंसकरंबितः । सरोजको मलोद्गारनीरसंसक्तमारुतः ॥ करं हस्तम् । कुशब्दो निन्दार्थः । कुपुरुषः । हे को हे पृथ्वि । हे क हे ब्रह्मन्। कुः पृथ्वी। हे अर 'आरा' इति लोकभाषा । कलहं वाग्युद्धम् । सकरं दण्डयुक्तम् । वितः बकादिपक्षिणः सकाशात् । सरस्तडागम् । हे अज हे शंभो । कः सूर्यः । अमलः मलरहितः । निर्मल इत्यर्थः । उद् उदकम् । गीः वाणी । हे र हे अग्ने । नीरसं निर्गतो रसः शृङ्गारात्मको यस्मात् सः नीरसस्तम् । सक्तमा सक्ता लग्ना मा लक्ष्मीर्यस्यां सा । अरुतः न विद्यते रुतं शब्दो जल्पनं यस्मिन्सः । करंकुकोककुररकलहं सकरंबितः । करंकवः पक्षिविशेषाश्च को काश्चक्रवाकश्च कुरराः क्रौञ्चाश्च कलहंसा: हंस विशेषाश्च एतैः पक्षिसमूहैः करम्बितो व्याप्तस्तडागः प्रीतिकरो भवेदित्याशयः । पुनः कीदृशस्तडागः । सरोजकोमलो र नीरसंसक्तमारुतः सरोजानां कमलोऽधिकसौरभ्यवान् य उद्गारः उद्गिरणं निःश्वाससदृशं यस्मिन् तत् । अर्थात्परिमलवत् यन्नीरं जलं तेन सतो मारुतो वायुर्यस्मिन् तडागे सः ॥
इति चक्रजातिः ।
वर्णद्वयद्वयैकैकदल भूतदलाष्टकम् ।
सर्वोत्तराद्यवर्णेन पद्मं स्यात्कृतकर्णिकम् ॥ १३ ॥
२३
अष्टदलैर्नालेन च सहितं पद्मं प्रश्नोत्तरम् ॥
पुण्यात्मा वद कीदृशः सरसिजै: के मोदिताः कीदृशस्त्वद्वैरी गतचक्षुत्रः कुलमभूत्कीदृक्त्वया के जिताः । बद्धालिः सलिलाशयः कथय भोः कीदृक्च आक्षेपवा
क्शब्दः कुत्र न तस्करादिकभयं दत्ते भवेत्प्रायशः ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com