SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विदग्धमुखमण्डनकाव्यम् । वृत्तानां छन्दसां नाम यस्मिन् उत्तरे तत् वृत्तनामकं पृष्टम् ।। गतक्केशायासा विमलमनसः कुत्र मुनय. स्तपस्यन्ति स्वच्छाः सुररिपुरिपोः का च दयिता । कविप्रेयः किं स्यान्नवलघुयुतैरष्टगुरुमि बुंधा वृत्तं वर्णैः स्फुटघटितबन्धं कथयत ॥ ३५ ॥ शिखरिणी ॥ शिखराणि विद्यन्ते यस्मिन्नसौ शिखरी तस्मिन् । शिखरिणि पर्वते । ई लक्ष्मीः । शिखरिणीछन्दः ॥ उरसि मुरमिदः का गाढमालिङ्गितास्ते ___ सरसिजमकरन्दामोदिता नन्दने का । गिरिसमलघुवर्णैरणवाख्यातिसंख्यै गुरुभिरपि कृता का छन्दसां वृत्तिरम्या ॥ ३६ ॥ मालिनी ॥ मा लक्ष्मीः । अलिनी भ्रमरी । मालिनी नाम छन्दोवृत्तम् ।। इति वृत्तनामजातिः। एकमेवोत्तरं यत्र सुश्लिष्टवाद्विधा भवेत् । सुप्तिङन्तप्रभेदेन नामाख्यातं तदुच्यते ॥३७॥ सुबन्ततिङन्तयोमैदेन सुगुप्तवाद्विधा भवेत् यत्र प्रश्ने एकमेवोत्तरं तत् नामाख्या. तं पृष्टम् । नाम च आख्यातं च नामाख्याते ते विद्यते यस्मिन् तत् ॥ समरशिरसि सैन्यं कीदृशं दुर्निवारं विगतघननिशीथे कीडशे व्योनि शोभा । कमपि विधिवशेन प्राप्य योग्याभिमानं __जगदखिलमनिन्धं दुर्जनः किं करोति ॥ ३८ ॥ अभिभवति ॥ अमि नास्ति भीर्यस्य तत् भयरहितं भवति । भानि नक्षत्राणि विद्यन्ते यस्मिन् तत् भवत् तस्मिन् भवति नक्षत्रयुक्त । अभिभवति पराभवति । नीचो वृद्धिं गतो दुःखदायक एव भवेदिति नीतिः। प्रथमपुरुषैकवचनम् ॥ पदमनन्तरवाचि किमिष्यते कपिपतिर्विजयी ननु कीदृशः । परगुणं गदितुं गतमत्सराः कुरुत किं सततं भुवि सजनाः ॥ ३९ ॥ अनुसरामः॥ अनु पश्चाद्वाची । रामेण सहवर्तमानः सरामः । अनुसरामः वयं परमगुणं प्रति अनुसरणं कुर्मः । उत्तमपुरुषबहुवचनम् । लट् ॥ वदति रामममुष्य जघन्यजो वसति कुत्र सदालसमानसः । अपि च शक्रसुतेन तिरस्कृतो रविसुतः किमसौ विदधे त्वया ॥४०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034657
Book TitleVidagdha Mukh Mandan Kavyam
Original Sutra AuthorN/A
AuthorVasudev Lakshman Sharma
PublisherPandurang Jawaji
Publication Year1926
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy