SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । पथिकस्तिष्ठति कष्टं विरही नाविक आस्ते तत्कृतरक्षः । इत्यादि प्रश्ने युक्तं यहि तदुत्तरमुत्तमपूरुष ॥ १५ ॥ पथि मार्गे चलति सः पथिकः । नाविकः पोतवाहः ॥ इति प्रश्नोत्तरसमजातिः । यस्मिनुत्तरमुच्चार्य प्रश्नस्तस्यैव पृच्छयते । पृष्टप्रश्नं तदिच्छन्ति प्रश्नोत्तरविदो यथा ॥ १६ ॥ यस्मिन् प्रश्नविषये प्रथममुत्तरस्योच्चारं कृत्वा तस्यैवोत्तरस्य पुनः प्रश्नः पृच्छयते तत् पृष्टप्रश्नं नाम पृष्टम् ॥ लक्ष्मणेत्युत्तरं यत्र प्रश्नः स्यात्तत्र कीदृशः। ग्रीष्मं द्विरदवृन्दाय वनाली कीदृशी हिता ॥ १७ ॥ कासारसहिता ॥ अत्र का सारसहिता इति प्रश्नः प्रथमवारमेव । द्वितीयवारं तूत्तरम् । सारसस्य पक्षिणो हिता प्रिया का इति प्रश्नः । 'हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा' इत्यमरः । कासारेण आखातसरोवरेण सहिता सहवर्तमाना ॥ चादय इति यत्र स्यादुत्तरमथ तत्र कीदृशः प्रभः । कथय त्वरितं के स्युनौकाया वाहनोपायाः ॥ १८ ॥ केनिपाताः॥ अत्रापि के निपाता इति प्रश्नः प्रथमवारमेव । द्वितीयवारं तूत्तरम् । निपाताः के भवन्तीति प्रश्नः । चादयो निपातसंज्ञाः । के पानीये निपतन्ति ते केनिपाताः । अलुक्समासः 'हालेसा' इति भाषा ॥ इति पृष्टप्रश्नजातिः। कथयामुकमित्यादि भक्त्वा यत्रोत्तरं भवेत् । भनोत्तरं तदिच्छन्ति काकुमात्रेण गोपितम् ॥ १९॥ अनिर्दिष्टं पृष्टं भक्वा यत्रोत्तरं भवेत् तत् भमोत्तरं भनं उत्तरं यस्मिन् तत् भनोत्तरं पृष्टम् ॥ भवत इवातिवच्छं कस्याभ्यन्तरमगाधमविशिशिरम् । काव्यामृतरसमग्नस्त्वमिव सदा कः कथय सरसः ॥ २० ॥ शब्दविकारमात्रेण गोपितं उत्तरमन्तपदे सरसस्तडागस्य रसेन शृङ्गारादिना सहवर्तमानः सरसः पुमान् ॥ वीरे सरुषि रिपूणां नियतं का हृदयशायिनी भवति । नभसि प्रस्थितजलदे का राजति हन्त वद तारा ॥ २१ ॥ अत्राप्युत्तरमन्तपदे। आरा चर्मप्रमेदिनी । शत्रूणां मनसि दुःखरूपा मारा तारा । 'नक्षत्रमृक्षं भं तारा' इत्यमरः ॥ इति भग्नोत्तरजातिः । यत्पृष्टं प्रश्नवाक्ये स्वादादिमध्यान्तसंस्थितम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034657
Book TitleVidagdha Mukh Mandan Kavyam
Original Sutra AuthorN/A
AuthorVasudev Lakshman Sharma
PublisherPandurang Jawaji
Publication Year1926
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy