________________
द्वितीयः परिच्छेदः ।
द्वितीयः परिच्छेदः। विशेषणं विशेष्येण यत्र प्रश्ने विधीयते ।
भेद्यभेदकमाहुस्तं प्रश्नं प्रश्नविदो यथा ॥१॥ यस्मिन्पृष्टे विशेष्येण युक्तं विशेषणं क्रियते तत् भेद्यभेदकं भेद्यं च भेदकं च भेद्य. भेदके भेद्यभेदके यस्मिन् तत् भेद्यभेदकं पृष्टम् ॥
कीहकिं स्यान्न मत्स्यानां हितं खेच्छाविहारिणाम् ।
गुणः परेषामत्यर्थ मोदते कीदृशः पुमान् ॥ २॥ विमत्सरः ॥ वयः पक्षिणो विद्यन्ते यस्मिन् तत् विमत् ईदृशं सरस्तडागः । विगतो मत्सरः अहंकारो यस्य सः ॥
अगस्त्येन पयोराशेः कियत्किं पीतमुज्झितम् ।
स्वया वैरिकुलं वीर समरे कीदृशं कृतम् ॥ ३ ॥ सकलंकं ॥ सकलं समस्तं कं पानीयं पीतम् । मूत्रं च सकलई कलङ्केनाननला. छनेन सहवर्तमानं कृतम् ॥
इति भेद्यभेदकजातिः । दीर्घवृत्तेन यत्पृष्टमुत्तरं कियदक्षरम् ।
तदोजखीति विख्यातमूर्जितं चेति केचन ॥४॥ यत्पृष्टं दीर्घश्लोकेन पृच्छयते तस्योत्तरे स्तोकैरक्षरैर्भवेत् तत् ओजखि पृष्टम् ॥ कामिन्याः स्तनभारमन्थरगतीलाचलच्चक्षुषः
कंदकविलासनित्यवसतेः कीदृक्पुमान्वल्लभः । हेलाकृष्टकृपाणपाटितगजानीकात्कुतस्तेऽरयः
श्वासायासविशुष्ककण्ठकुहरा निर्यान्ति जीवार्थिनः ॥ ५ ॥ समरतः॥ समं तुल्यं रतं भोगक्रिया यस्य सः । समरतः संप्रामात् ॥ दैत्यारातिरसौ वराहवपुषा कामुजहाराम्बुधेः
का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः । स्वच्छन्दं नवशल्लकीकवलनैः पम्पासरोमजनैः
के विन्ध्याद्रिवने वसन्त्यभिमतक्रीडाभिरामस्थिताः ॥ ६॥ कुंजराः॥ कुं पृथ्वीम् । जरा वृद्धत्तम् । अः कृष्णः । कुञ्जराः हस्तिनः ॥
इत्योजस्विजातिः ।। उपमादिरलंकारो बहुधा परिकीर्तितः।
यत्नेन कथ्यते सार्धं सालंकारं तदुच्यते ॥ ७॥ अलंकारैः सहवर्तमानं सालंकारं पृष्टम् ॥
कल्याणवाक्त्वमिव किं पदमत्र कान्तं
सद्भूपतेः स्वमिव कः परितोषकारी ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com