________________
प्रथमः परिच्छेदः । हे दविन् दवो विद्यते यस्मिन् तत् दवि तत्संबोधनम् । दवो वनामिस्तेन युक्तमित्यर्थः। दावो वनाग्निः ॥ कुन्दमकरन्दबिन्दवः कुन्दानां पुष्प विशेषाणां मकरन्दः पुष्परसो गन्धस्तस्य बिन्दवः कणाः ॥
वसति कुत्र सरोरुहसंततिर्दिनकृतो ननु के तिमिरच्छिदः ।
पवनभक्षसपत्नरणोत्सुकं पुरुषमाह्वय को जगति प्रियः ॥४७॥ के किरणोत्कराः॥ के पानीये । किरणानां उत्कराः समूहाः । हे के किरणोत्क, 'केका वाणी मयूरस्य' इत्यमरः । केका विद्यते येषां ते केकिनः के किनां मयूराणां रणे शब्दे उरक उत्सुकः तत्संबोधनम् । राः द्रव्यम् ॥
इति शब्दार्थवचनभिन्नम् । कीहरगृहं याम्यगृहं गतस्य कास्त्राणमम्भस्तरणे जनानाम् ।
भूषा कथं कण्ठगते नु पृष्ठे मुक्ताकलापैरिति चोत्तरं किम् ॥४८॥ हाराविनावः ॥ हारावि हा इति खेदे । हा इति रावः शब्दो विद्यते यस्मिन् तत् । नावः नौकाः । हे हाराः, वः युष्मान् विना ॥
कवयो वद कुत्र कीदृशाः कठिनं किं विदितः समन्ततः।
अधुना तव वैरियोषितां हृदि तापः प्रबलो विहाय काः ॥४९॥ गिरिसारमुखाः॥ गिरि वाण्याम् सारं प्रधानम् स्फुटोचारवन्मुखं वदनं येषां ते । गिरिसारं लोहम् । उखाः स्थाली: अनरन्धनहण्डिकाः ॥
इति शब्दार्थलिङ्गविभक्तिवचनभिन्नम् । मेघात्यये भवति किं सुभगावगाहं __ का वा विडम्बयति वारणमल्लवेश्याः । दुरवीर्यविभवस्य भवेद्रणे का
___काः स्मेरवसुभगास्तरणिप्रभाभिः ॥५०॥ सरोजराजयः ॥ सरस्तडागम् । जरा वयोहानिः। जयः प्रसिद्धः ॥ सरोजराजयः सरोजानां कमलानां राजयः श्रेण्यः ॥ • पृच्छति शिरसिरहो मधुमथनं
मधुमथनस्तं शिरसिरुहं च । कः खलु चपलतया भुवि विदितः
का ननु यानतया गवि गदिताः॥ ५१ ॥ केशवनौकाः॥ हे केशव हे हरे। हे केश हे वाल। वनौकाः वने ओको गृहं यस्यासौ वनौकाः वानरः । नौकाः नावः ॥
इति शब्दार्थलिङ्गवचनभिन्नम् । न भवति मलयस्य कीदृशी भूः क इह कुचं न बिभर्ति कं गता श्रीः । भवदरिनिवहेषु कास्ति नित्यं बलमथनेन विपव्यधायि केषाम् ॥५२॥ विपन्नगानाम् ॥ विपन्नगा विगताः पन्नगाः सर्पा यस्याः सा ईदृशी न , किंतु
२ विद०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com