SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः। को मोहाय दुरीश्वरस्य विदितः संबोधनीयो गुरुः को धाच्यां विरलः कलो नवधनः किंवन्न कीग्द्विजः ।। किं लेखावचनं भवेदतिशयं दुःखाय कीहक्खलः को विनाधिपतिर्मनोभवसमो मूर्तः पुमान्कीदृशः ॥३४॥ राजीवसन्निभवदनः ॥राः द्रव्यम् । हे जीव हे गुरो । सन् सज्जनः । इभ. वत् हस्तिवत् । न विद्यते अः कृष्णोऽस्मिन्निति अनः । ब्राह्मणो हि कृष्णरहितः कदाचिन्न स्यादित्यर्थः । राजी पतिः । वसन् निवासं कुर्वन् । इभवदनः इभवत् हस्तितुल्यं वदनं मुखं यस्यासौ गणेश इत्यर्थः । राजीवेन कमलेन सन्निभं सदृशं वदनं मुखं यस्यासौ राजीवसन्निभवदनः ॥ इति द्विय॑स्तकसमस्तजातिः । द्विःसमस्तं यदा पृष्टं व्यस्तकेन पुनर्भवेत् । तद्द्विःसमस्तकव्यस्तं कथितं प्रश्नपण्डितैः ॥ ३५ ॥ द्विवारं समुदायेन पृष्ट्वा पुनर्व्यस्तकेन पृच्छयते तत् द्विःसमस्तव्यस्तं पृष्टम् ॥ कीदृक्षः सकलजनो भवेत्सुराज्ञः कः कालो विदित इहाधिकारहेतुः। कः प्रेयान्कुमुदवनस्य को निहन्ति भ्रातृव्यं वद शिरसा जितस्त्वया कः ॥ ३६॥ विधुरविरहितः॥ विधुरेण कष्टेन विरहितः । सुखीत्यर्थः ॥ विधुश्च रविश्च विधुरवी चन्द्रादित्यौ ताभ्यां रहितः ॥ विधुश्चन्द्रः । अविः ऊर्णायुः । अहितः शत्रुः ॥ संग्रामे स्फुरदसिना त्वया जिताः के के दुःखं बत निरये नरस्य कुयुः। . कस्मिन्नुद्भवति कदापि नैव लोम ज्ञाताः के जगति महालघुत्वभाजः ॥ ३७ । नरकरेणवः॥ नराश्च करेणवश्व मनुष्यहखिनः, नरकस्य रेणवो धूल्यः ।अग्नि. रूपा वालुका इत्यर्थः । नरकरे पुरुषाणां हस्ततले । अणवः परमाणवः ॥ इति द्विःसमस्तकव्यस्तजातिः। . एकश्रुत्या वचो यत्र भिन्नार्थप्रतिपादकम् । प्रभेदं द्विःसमस्तं स्यात्तमेकालापकं विदुः॥३८॥ द्विःसमस्तस्य प्रभेदं एकालापकं पृष्टम् ॥ कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः । प्रेतराक्षसपिशाचसेविता कीदृशी च पितृकाननस्थली ॥ ३९॥ नरकपालरचिता ॥ नरकाणां पालाः नारकजीवरक्षकाः यमास्तै रचिता १ 'हतास्त्वया के' इति पाठः. - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034657
Book TitleVidagdha Mukh Mandan Kavyam
Original Sutra AuthorN/A
AuthorVasudev Lakshman Sharma
PublisherPandurang Jawaji
Publication Year1926
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy