________________
परिशिष्ट
३० स्थानिवुणः ॥ १॥३६॥
यस्यार्थः प्रतीयते न च प्रयोगः स स्थानी। क्रियायां तदर्थायां वुण लट् च इति वुणो विहितस्तदन्तस्य स्थानिनो धातोराप्ये कर्मणि भ्यांभ्यसो भवन्ति । एधेभ्यो ब्रजति ! पाकाय व्रजति । स्थानीति किम् ? एधानाहारको व्रजति । पार्क कारको व्रजति ।
है. गम्यस्याऽऽप्ये ॥ २।२।६२ ॥
यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्यः । गम्यस्य तुमो व्याप्ये वर्तमानाच्चतुर्थी स्यात् । एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् ? एधानाहर्तुं याति । ___पा० क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १४ सि. को. सू. ५०१॥ ___क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहतु यातीत्यर्थः । नमस्कुर्मो नृसिंहाय, नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्य, इत्यादावपि ।
२१ ऋदुहेाऽस्याथैर्य प्रति कोपो न च कर्म ॥ ॥३।१३.॥
अमर्षकृत् क्रोधः। अपचिकीर्षा द्रोहः । अक्षमा ईर्ष्या । गुणेषु दोषा. विष्करणमसूया। एतदथैर्धातुभिर्योगे यं प्रति कोपस्तस्मिन् वर्तमानात् . भ्यांभ्यसो भवन्ति न च तत्र्म भवति । देवदत्ताय क्रुध्यति। जिनदत्ताय कुप्यति । देवदत्ताय द्रुह्यति । देवदत्ताय ईय॑ति । देवदत्तायासूयति ।
है. अदुहेाऽसूयार्थैर्य प्रति कोपः ॥ २२२०॥
क्रुधाद्यर्थैर्द्धातुभिर्योगे यं प्रति कोपस्तत् सम्प्रदानं स्यात् । मैत्राय क्रुध्यति, द्रुह्यति, ईर्ण्यति, असूयति वा । यं प्रतीति किम् ! मनसा क्रुध्यति । कोपः इति किम् ? शिष्यस्य कुप्यति विनयार्थम् ।
पा. कुधदुहेाऽसूयार्थानां यं प्रति कोपः ॥ ॥४३॥ सि० को. सू० ५०५।
क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः सः उकसनः स्यात् । हरये कुष्यति,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com