________________
१२
परिशिष्ट किम् ? अक्षिकाणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम् , तेनाक्ष्णा दीर्घ इति न स्यात् ।
पा• येनाविकारः ।।३।२०॥ सि को सू० ५६५॥
येनाङ्गेन विकृतेनांगिनो विकारो लक्ष्यते ततः तृतीया स्यात् । भक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् । अक्षि काणमस्य ।
२६ उभ्यांभ्यस् ॥ ॥॥॥३५॥
देयैराप्येऽप्रधानेऽर्थे वर्तमानादेकद्विबहुषु यथासंख्यं ले भ्यां भ्यस् प्रत्ययाः भवन्ति ।
है. चतुर्थी ॥२२५३।।
सम्प्रदाने वर्तमानादेक-द्वि बहौ यथासंख्यं के.भ्यां भ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते ।
कर्मणा यमभिप्रेति स सम्प्रदानम् ।।१।४३२॥ सि को सू. ५१९ ॥ दानस्य कर्मणा यमभिप्रेति स सम्प्रदानसंज्ञः स्यात् । पा० चतुर्थों संप्रदाने ।२३।१३ ॥ सि. कौ० सू. ५७० ॥ विप्राय गां ददाति । अनभिहित इत्येव । दीयतेऽस्मै दानीयो विप्रः । २० शतार्थवषड्नमः स्वस्तिस्वाहास्वधाहितैः ॥ ॥१२॥
शक्काथैर्वषडादिभिश्च योगेऽप्रधानेऽर्थे वर्तमानाद् डेभ्याभ्यसो भवन्ति । शक्तः शक्नोति, प्रभुः प्रभवति जिनदत्तो देवदत्ताय । अलं मल्लो मल्लाय । वषडग्नये। नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । इन्द्राय स्वाहा । स्वधा पितृभ्यः । आतुराय हितम् ।
है. शक्तार्थ-वषड्-नमः स्वस्ति-स्वाहा स्वधाभिः ॥ २२१८॥
शक्तावेषडादिभिश्च युक्ताच्चतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय, वषडनये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com