SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट पा० अधिश्रीस्थासां कर्म । १ ४ ४६ । सि० कौ० सू० ५४२ ।। अधिपूर्वाण | मेषामाधारः कर्म स्यात् । अधिशेते-अधितिष्ठति - अध्यास्तेवा वैकुण्ठं हरिः । १४ वसोऽनूपाध्याः ||१|३|१२३॥ अनु उप अधि आङ् इत्येतत्पूर्वस्य वसतेर्य आधारः तत्कर्म भवति । प्राममनुवसति । प्राममुपवसति । प्राममधिवसति । प्राममावसति । हैम ० ० उपान्वष्पाङ वसः ॥ २।२।२१ ॥ उपादिविशिष्टस्य वसतेराधारः कर्म स्यात् । प्राममुपवसति, अनुवसति, अधिवसति आवसति । पा० उपान्वध्याङ वसः | १ | ४|४८ ॥ सि० कौ० सू० ५४४ ॥ उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति-अनुवसति-अधिवसति आवसति वा वैकुण्ठं हरिः । १५ कालाध्वनोर्व्याप्तौ ॥ १।३।१२६ ॥ काले अध्वनि चाप्रधाने वर्तमानात् व्याप्तौ अमौट्शसो भवन्ति । मासं गुडापूपाः । मासमधीते । कोशं कुटिला नदी । व्याप्ताविति किम् ? मासेsधीते । मासस्याधीते । कोशेऽधीते । क्रोशस्याधीते । हैम० कालाध्व-भाव देशं वाऽकर्म्म चाकम्मैणाम् ॥ २२ २३ ॥ कालादिराधारेऽकर्मणां धातूनां योगे कम्र्म्माकम् च युगपद्वा स्यात् । मासमास्ते, क्रोश शेते, गोदोहमास्ते, कुरूनास्ते । पक्ष- मासे आस्ते इत्यादि । अकर्म चेति किम् ? मासमास्यते । अकर्मणामिति किम् ? रात्रावुद्देशोऽधीतः । पा० 'अकर्मक धातुमियोंगे देशः कालो भावो गन्तब्योऽध्या च कर्मसंज्ञकइति वाच्यम्' ( वा० ११०३ - ११०४ ) । कुरून् स्वपिति मासमास्ते । गोदोहमास्ते । क्रोशमास्ते । 1 पा० कालाध्वनोरत्यन्तसंयोगे | २|३|५ ॥ सि० कौ० सू० ५५८ ॥ इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034656
Book TitleVibhakti Samvad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherLala Sitaram Jain
Publication Year1941
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy