________________
(२४०) सूर्यसिद्धान्तः
[ चतुर्दशोऽअथ स्वोक्तमुपसंहरति
एतत्ते परमाख्यातं रहस्यं परमाद्भुतम् ॥
ब्रह्मेतत्परमं पुण्यं सर्वपापप्रणाशनम् ॥ २२ ॥ हे परम दैत्यश्रष्ठ सूर्यभक्तत्वात् । ते तुभ्यमेतदधुनोक्तं परं द्वितीयकथनमाख्या, निराकांक्षतया सम्पूर्ण कार्थतम् । पूर्व सावशेषमुक्तं स्थितमिति त्या प्रश्नाः कृता. स्तदुत्तररूपद्विनीयकथनमिदं निःसंदिग्धमस्तीति तव संशया नोद्भवन्तीति भावः । ननु माप्रश्नं विना पूर्वमेवेदं कथं नोक्तमित्यत आह-रहस्यमिति । कुंत इत्यत आह-अडु तामिति । आकाशस्थग्रहनक्षत्रादिस्थितिज्ञानसम्पादकत्वादाश्चर्यकरमित्यर्थः। तथा च मत्पूर्वोक्तं येन सावधानतया श्रुतं तेनैव त्वदुक्ताः प्रश्नाः कर्तुं शक्यास्तदुत्तरत्वेन द्वितीयं मदुक्तमिति त्वां परीक्ष्य त्वा प्रत्युक्तं रहस्यमिति भावः । नन्वन्यशास्त्राणां ज्ञानादब्रह्मानन्दावाप्तिरस्मान्नेत्यंत आह-ब्रह्मति । एतन्मदुक्तं ब्रह्म ब्रह्मसमं तथा चान्यशास्त्राणां ब्रह्मसमत्वाभावेऽपि तज्ज्ञानाद्ब्रह्मानन्दावाप्तिररमाद्ब्रह्मस्वरूपाद्रह्मानन्दावाप्त किंचित्रमिति भावः । कुत इदं ब्रह्मसममित्यत आह-परमिति । उत्कृष्टम् । अत्र हेतुभूतं विशेषणद्वयमाह । पुण्यं सर्वपापप्रणाशनामति । पुण्यजनकं सर्वपापनाशकम् ॥ २२ ॥ ___ भा० टी०-हे श्रेष्ठ ! यह परम सद्भुत रहस्य वहा । यह सर्वपापका नाश करनेवाला अति पवित्र है, वरन् ब्रह्मस्वरूप है ॥ २२ ॥
नन्वस्माद्ब्रह्मानन्दप्राप्तिरुक्ता पूर्व ग्रहलोकप्राप्तिश्चोक्ता तत्रानयोः किं फलं भवती त्यत आह--
दिव्यं चाक्षे ग्रहाणां च दर्शितं ज्ञानमुत्तमम् ॥
विज्ञयार्कादिलोकेषु स्थान प्राप्नोति शाश्वतम् ॥ २३ ॥ आक्षे नक्षत्रसंबन्धि ज्ञानं ग्रहाणां ज्ञानम् । चः समुच्चये। उत्तमं सर्वशास्त्रेभ्य उत्कृष्टम् । अत्र हेतुभूतं विशेषणं दिव्यं स्वर्गलोकोत्पन्नं दर्शितं मया तुभ्यमुपदिष्टं विज्ञाय ज्ञात्वाकांदिलोकेषु सूर्यादिग्रहलोवेषु स्थानमाधिष्ठानं प्राप्नोति शाश्वतं नित्यं ब्रह्मसायु: ज्यरूपं स्थानम् । पूर्वाधस्थद्वितीयचकारः समुच्चयाकोऽत्रान्वेति । तथाचोभयं फलं क्रमेण भवतीति भावः । यत्तु एतत्ते परमाख्यातमित्यादिश्लोकः क्वचित्पुस्तकेऽस्मात् श्लोकात्पूर्व नास्ति किन्तु माननिरूपणान्तस्थदिव्यं चाक्षमित्यादिश्लोकान्ते मानाध्यायसमाप्तिं कृत्वाग्रे “ यथा शिखा मयूराणां नागानां मणयो यथा । तद्ववेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ॥ १॥ न देयं तत्कृतघ्नाय वेदविप्लावकाय च । अर्थलुब्धाय मूर्खय सहकाराय पापिने ॥२॥ एवंविधाय पुत्रायाप्यदेयं सहजाय च । दत्तेन बेद:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com