________________
(२३८ ) सूर्यासद्धान्तः
[ चतुर्दशोऽअथ प्रसंगात्कार्तिकादिबृहस्पतिवर्षाण्याह
वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथों॥
कार्तिकादीनि वर्षाणि गुरोरस्तोदयात्तथा ॥ १७॥ यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञो मासो भवति । तयेति समुच्चयार्थकम् । बृहस्पतेः सूर्यसान्निध्य दूरत्वाभ्यामस्तादुदयावा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथौ । अमायामित्यथः । चकारः पौर्णमासीसम्बन्धात्समुच्चयार्थकः । योगो दिननक्षत्रसम्बन्धः । कार्तिकादीनि द्वादशवर्षाणि भवन्ति । वैशाखकृष्णपक्ष. पञ्चदश्याममारूपायां बृहस्पतेरस्त उदये वा जाते सति तदापि बृहस्पतिवर्ष कृत्ति. कादिनक्षत्रसम्बन्धात्कार्तिकसञ्ज्ञम् । एवं ज्येष्ठाषाढश्रावणभाद्रपदाश्विनकार्तिकमार्गशीर्षपौषमाधफाल्गुनचैत्रामासु मृगपुण्यमघापूर्वी . फाल्गुनीचित्राविशाखाज्येष्ठापूर्वापादश्रवणपूर्वाभाद्रपदाअश्विनीदिननक्षत्रसम्बन्धान्मार्गशीर्षादीनि भवन्ति । अत्रापि प्रोक्तनक्षत्रदयत्रयसम्बन्धः प्रागुक्तो बोध्यः । अनेनेत्युपलक्षणम् तेन यहिने बृहस्पकटयोऽस्तो वा तहिने यच्चन्द्राधिष्ठितनक्षत्रं तत्सझं वार्हस्पत्यं वर्ष भवतीति तात्पयम । संहिताग्रन्थेऽस्तोदयवशावर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकैर्गण्यते येनोदितज्य इत्युक्तरिति ॥ १७ ॥
भाटी०-जैसे वैशाखादिमें पूर्णिमाकी तिथिके नक्षत्रसे मासका नाम होता है तैसे ही बृहस्पतिके अस्तोदयसमय कृष्णापंचदशी तिथिके नक्षत्रानुसार वर्षका नाम होता है ॥ १७ ॥ अथ क्रमप्राप्तं सावनमाह
उदयादुदयं भानोः सावनं तत्प्रकीर्तितम् ॥
सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः ॥ १८॥ सूर्यस्योदयादुदयकालमारभ्याव्यवाहतोदयकालपर्यन्तं यत्कालात्मकं तत्सावनं मानहरुक्तम् । एतेनोदयद्वयान्तरात्मककालस्य गणनया सावनानि वसुट्यष्टाद्रीत्यादिना मध्याधिकारोक्तानि भवन्ति । तद्व्यवहारमाह- यज्ञकालविधिरिति । यज्ञस्य यः कालस्तस्य गणना तैः. सानैः । तुकारोऽन्यमाननिरासार्थकैवकारपरः ॥ १८ ॥
मा० टी०-एक सूर्योदपसे लेकर तूपरे सूर्योदयतक काल का नाम सावन है । इससे ही पज्ञकालकी विधिका निर्णय होता है ॥ १८॥ अथ व्यवहारान्तरमाह
सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ॥ मध्यमा ग्रहभुतिस्तु सावनेनैव गृह्यते ॥ १९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com