________________
( २३६ )
सूर्य्यसिद्धान्तः
[ चतुर्दशोऽसौरदिनं सूर्याशेन यथा भवति तथैतद्रूपैभागैः कयाः पूर्ण चान्द्रं दिनं भवतीत्यत बाह । अंशैरिति । भागैस्तु कारात्सूर्यचन्द्रान्तरोत्पन्नैस्तस्य तद्रूपत्वात् । द्वादशभिर्द्वादशसंख्याकैस्तिथिज्ञया । एकं चान्द्रदिनं ज्ञेयमित्यर्थः । एतदुक्तं भवति । सूर्यचन्द्रयो गाच्चान्द्र दिनप्रवृतेः पुनर्योगे मातसमाप्तेर्भगणान्तरेण चान्द्रो मासस्त्रिंशच्चान्द्रदिनात्मकः । अतस्त्रिंशद्दिनैभंगणांशान्तरं तदैकेन किमिति । द्वादशभागैरकं चान्द्रदिनम् । 'दर्शः सूर्ये न्दुसङ्गमः इत्यभिधानाद्दर्शावधिकमासस्य त्रिंशत्तिथ्यात्मकत्वात्तिथिश्वान्द्रदिनरू पेति ॥ १२ ॥
9
मा० टी० - सूर्य से निकलकर अहरह चन्द्रमा पूर्वदिशा में जाता है; तिसके लिये सूर्य से १२ अंशमें जानेको जितना समय लगता है, वह तिथि है ॥ १२ ॥
अथ चान्द्रव्यवहारमाह
तिथिः करणमुद्राहः क्षौरं सर्वक्रियास्तथा ॥ व्रतोपवासयात्राणां क्रियाचान्द्रेण गृह्यते ॥ १३ ॥
तिथिः प्रतिपदाद्या करणं ववादिकमुद्वाहो विवाहः क्षौरं चौलकर्म । एतदाद्याः सर्व क्रिया व्रतबन्धाद्युत्सवरूपा व्रतोपवासयात्राणां नियमोपवासगमनानां क्रिया करणम् । तथा समुच्चयार्थकः । चान्द्रमानेन गृह्यते । मङ्गीक्रियते ॥ १३ ॥
भा० टी० - तिथि, करण, विवाह क्षौरादि समस्तकर्म, व्रत, उपवास, यात्रा सबड़ी चान्द्र मान ग्रहण किये जाते हैं ॥ १३ ॥
अथ चान्द्रमासं प्रसङ्गात्पितृमानं चाह -
त्रिंशता तिथिभिर्मासान्द्रः पित्र्यमहः स्मृतम् ॥ निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः ॥ १४ ॥
त्रिंशता त्रिंशमितैस्तिथिभिश्वान्द्रो मासः पित्र्यं पितृसंबन्धि अहर्दिनम् । निशा रात्रिः पितृसंबद्धा । चकारो व्यवस्थार्थकः । ते नोभयं नैकः प्रत्येकं किंतु मिलितं स्मृतमिति - लिंगानुरोधेनोभयत्रान्वेति । तथा च चान्द्रो मासः । पित्र्याहोरात्रमित्यर्थः । फलितः । मासपक्षान्तौ मासान्तो दर्शान्तः पक्षान्तः पूर्णिमान्तः । एतावित्यर्थः । विभागतः क्रमेणेत्यर्थः तयोः पित्र्याहोरात्रयोर्म ध्येऽर्धे भवतः । दर्शान्तः पितॄणां मध्य ह्निः । पूर्णिमान्तः पितॄणां मध्यरात्र इत्यर्थः । अर्थात्कृष्णाष्टम्ययै दिनप्रारंभः । शुक्लाष्टम्यर्धे दिनान्त इति सिद्धम् ॥ १४
भा० टो०-३० तिथिमें चान्द्रमास वा पितृदिन और पक्षान्त में निशा है इस प्रकार विमागर्ने एक माखका दिनरात होता है ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com