________________
(२३२) सूर्यसिद्धान्तः
[ चतुर्दशोऽ'तत्षष्टिः सङ्गुणादिव्यं वर्षम् ' इत्यन्तं तत्रैव प्रतिपादितम् । तथा तृतीयमानं पित्र्यं पितणां मानं वक्ष्यमाणम् । प्राजापत्य मानं वक्ष्यमाणं चतुर्थम् । बृहस्पतेस्तथामानं पञ्चमं समुदीरितम् । सौरं चकारात्षष्ठं मानम् । सावनं सप्तमं मानम् । चन्द्रमानमष्टमम् । नाशनं मानं नवमम् । एतान्यपि तत्रैवोक्तानि ॥ १॥ ___भा०टी०-ब्राह्म, वैव, पिज्य, प्राजापत्य, बा:स्पत्य, सौर, सावन, चान्द्र और नाक्षत्र यह नो मान हैं ॥ १ ॥
अथ किंचित्तरिति द्वितीयप्रश्नस्योत्तरं विवक्षुः प्रथमं व्यवहारोपयुक्तमानानि दर्शयात
चतुर्भिर्यवहारोऽत्र सौरचान्द्रसावनः ॥
बार्हस्पत्येन षष्टयन्दं ज्ञेयं नान्यैस्तु नित्यशः ॥ २॥ अत्र मनुष्यलोके सौरचान्द्रनाक्षत्रसावनैश्चतुर्भिर्मानैर्व्यवहारः कर्मघटना । षष्टयब्द प्रभवादिषष्टिवर्ष जात्यभिप्रायेणैकवचनम् । बार्हस्पत्येन बृहस्पतिमानेन बृहस्पतिमध्यमराशिभोगात्मककालेन प्रत्येकं ज्ञेयम् । अन्यैरवशिष्टैाह्मादिव्यापत्र्यप्राजापत्यैः। नित्यशः सदेत्ययः । व्यवहारो नास्ति । तुकागत्कदाचित्कत्वेन तैर्व्यवहारः ॥२॥
भार्ट-इनमें चारका व्यवहार हुआ है । सौर, चान्द्र, नाक्षत्रिक और सावन, षष्टयन्द नानने के लिय बार्हस्पत्यमानको जानना चाहिये । शेष मानोंका नित्य प्रयोजन नहीं होता ॥ २ ॥ अथ मौरेण व्यवहारं प्रदर्शयति
सारेण युनिशोर्मानं षडशीतिमुखानि च ॥
अयनं विषुवच्चैव संक्रान्तेः पुण्यकालता ॥३॥ अहोरात्रयोर्मानं सौरेण ज्ञेयम् । प्रात्यहिकसूर्यगतिभोगादहोरात्रं भवतीत्यर्थः । षडशीतिमुखानि वक्ष्यमाणानि । चः समुच्चये । तेन सौरमानेन ज्ञेयानि । अयन विषुवत् । चः समुच्चये । संक्रान्तः पुण्यकालता सूर्यविम्बकलासम्बद्धा सौरमानेन ॥ ३ ॥
मा० टी०-दिनरात्रिका परिमाण षडशीति आदि अयन, विषुवत् संक्रान्ति आदि पुण्यकाल, यह सब खोरमानमें निर्णीत होते हैं ॥ ३ ॥ अथ षडशीतिमुखमाह
तुलादिषडशीत्यहां षडशीतिमुखं क्रमात ।। तच्चतुष्टयमेव स्याद्विस्वभावेषु राशिषु ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com