________________
श्रीगणेशाय नमः ।
अथ
श्रीसर्यसिद्धान्तः।
मूढार्थप्रकाशटीका-भाषाटीकास्यां सहितः।
प्रथमोऽध्यायः । यथा शिखा मयूराणां नागानां मणयो यथा।
तद्ववेदाङ्गशास्त्राणां गणितं मूद्धनि स्थितम् ॥ पत्स्मृत्याभीष्टकार्यस्य निर्विघ्नां सिद्धिमेष्यति । नरस्तं बुद्धिदं वंदे वक्रतुण्डं शिवो द्भवम् ॥ १॥ पितरौ गोजिबल्लालौ जयतोऽम्बाशिवात्मकौ । याभ्यां पञ्च सुता जाता ज्योतिःसंसारहेतवः ॥ २ ॥ सार्वभौमजहांगीरविश्वासास्पदभाषणम् । यस्य तं भ्रातर कृष्णबुधं वंदे जगद्गुरुम् ॥ ३ ॥ नानाग्रन्थान्समालोच्य सूर्यसिद्धांतटिप्पणम् । करोमि रंगनाथोऽहं तद्गूढार्थप्रकाशकम् ॥ ४ ॥
अथ ग्रहादिचरितजिज्ञासून्मुनीस्तत्प्रश्नकारकान्प्रति स्वविदितं यथार्थतत्त्वं सूयौशपुरुपमयासुरसंवादं वक्तुकामः कश्चिदृषिः प्रथममारम्भणीयतत्व.थननिर्विघ्नसमापयर्थ कर प्रमाणाममंगलं शिष्यशिक्षायै निबध्नाति
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥१॥ ब्रह्मणे बृहत्त्वादपरिच्छिन्नत्वाज्जगद्व्यापकायेश्वराय “तस्माद्वा एतस्मादात्मन आकाश सम्भूतः" इत्यादिश्रुतिप्रतिपाद्यायेत्यर्थः । नमः कायवावचेष्टोपलक्षितेन मानसेन्द्रिपघुद्धिविशेषेण मत्तस्त्वमुत्कृष्टस्त्वत्तोऽहमपकृष्ट इत्यादिरूपेण नते.ऽस्मीयर्थः । ना व्यापकत्वेनाकाशस्यैव सिद्धिरत आह- समस्तजगदाधारमृतंय इति । समस्तस्य स्थावरजंगमात्मकस्य जगत उत्पत्तिस्थितिविनाशवत आधाराश्यभूता ब्रह्मविष्णुशिवरूपा मूर्तयः स्वरूपाणि यस्य तस्मै ब्रह्मविष्णुशिवात्मकायेत्यर्थः । आकाशस्य तदात्मक वाभावान्न सिद्धिारात भावः । नन्वेतादृशस्य स्वरूपध्यानं कर्तुं समुचितमित्यत आह । मचिन्त्याव्यक्तरूपायेति । अचिन्त्यश्चासावव्यक्तरूपस्तस्मै । अचिन्त्यो ध्यानाविषयः) मत्र हेतुरव्यक्तरूपः । न व्यक्तं प्रकटं रूपं स्वरूपं यस्य तथा च स्वरूपध्याना सम्भवान्नमस्कार एव समुचित इति भावः । नन्वव्यक्तरूपः कथमित्यत आह । निर्गुणा इति । निर्गता गुणाः सत्त्वरजस्तमोरूपा यस्मात्तस्मै गुणातीतायेत्यर्थः । तथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com