________________
चरणव्यूहपरिशिष्टभाष्ये ।
दाभवन्ति । राणायनौयाः । सासत्यमुग्राः । कालेयाः । महाकालेयाः । लाङ्गलायनाः । शार्दूलाः । कौथमाश्चेति । तव कौथुमानां षड्भेदा भवन्ति कौथुमाः । आसुरायणाः । वातायनाः । प्राञ्चलि नम्टतः । प्राचौनयोग्याः । नैगमोयाः । इति तेषां कौथुमादीनामध्ययनम् । अशौतिशत माग्नेयं पावमानं चतु:शतम् । ऐन्द्र ं तु षड्विंशतिर्यानि गायन्ति सामगास्तानि सूक्तान्यधीत्य चण्डा उत्कृष्टास्ते चण्डतरा अत्युकष्टा भवन्ति शिष्टानि व्यतिरिक्तानि श्रधीत्य पठित्वा शिष्टाविंशको भवति शिष्टान् प्रामाणिकान् आविंशतिशिष्टेषुवा शिष्टभागाः प्रवेशयोग्याः शिष्टा अष्टाविंशतिगणानां पूरकाः सर्वश्रेष्ठो भवतीत्यर्थः । तत्र सूक्तेषु केचिन्मन्त्रतन्त्रा इति मन्त्राश्चतुर्द्धा विधीयन्ते । तदाहाचार्यः । ऋटतन्त्रम् सामतन्त्रम् । सञ्ज्ञालक्षणम् । धातुलक्षणमिति । इदानों सामसङ्ख्यामाह । अष्टौ सामसहस्राणि सामानि च चतुईश । अष्टौ शतानि नवतिर्विंशतिर्वालखिल्यकम् । मरहस्यं ससुपर्णं प्रेक्ष्य तत्मादर्पणम् । सारण्यकानि सौर्याण्यतत्सामगणं स्मृतम् । अशोतिशतमाग्नेयम् । १८० | पावमानम् । १०४ । रोन्द्रन्तु । २६ । शिष्टाः २८ गणानां पूरकाः । अष्टौ सामसहस्राणीत्यस्यार्थोऽङ्कतो ज्ञातव्यः । ८८१४ । अन्य शाखासङ्ख्यामाह । नवतौति । सुपर्णप्रेक्षः कश्चिच्छाखाभेद: तेन सह वर्त्तमानः ससुपर्णप्रेक्षः सुपर्णप्रेक्षेण सहितो
1
४४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com