________________
३४
चरणव्यूहपरिशिष्टभाष्ये ।
माह । यजुर्वेदतरोः शाखा: सप्तविंशन्महामुने । वैशम्पायननामासौ व्यासशिष्यश्चकार वै । १ । थिष्येभ्यः प्रददौ ताश्च जग्रहस्तेऽप्यनुक्रमात् । याज्ञवल्क्यस्य तस्याभृद्ब्रह्मरातः सुतो द्विजः । २ । शिष्यः परमधर्मज्ञो गुरुवृत्तिरतः सदा । ऋषिर्यश्च महामेरो समाजेनागमिष्यति । ३ । तस्य वै सप्तरात्रं तब्रह्महत्या भविष्यति । पूर्वमेनं सुनिगणैः समयोऽयं कृतो हिजं । ४ । वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तथा । स्वस्त्रियं बालकं सोऽथ पदाघृष्टमघातयत् । ५ । शिष्यानाह च भो: शिष्या ब्रह्महत्यां परावृते । चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा । ६ । अथाह याज्ञवल्क्यस्तं किमेतैर्बहुभिर्द्विजैः । क्लेशतैरल्पतेजोभिश्चारिष्येऽहमिदं व्रतम् । ७ । तत: क्रुहो गुरुः प्राह याज्ञवल्क्यं महासुनिम् । मुच्यतां यत्वयाधीतं मत्तो विप्रावमानकः | ८ | निस्तेजसा बदस्येतान्यस्त्वं बाह्मणपुङ्गवान् । तेन शिष्येण नार्थीऽस्ति ममाज्ञाभङ्गकारिणः । 2 । याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्तै मयोदितम् । ममाप्यलं त्वयाऽधीतं यन्मया तदिदं द्विज । १० । श्रपराशर उचाच । इत्युक्ता रुधिराक्तानि स्वरूपाणि यजुष्यथ । छ यि त्वा ददौ तौ ययौ च खेच्छया मुनिः । ११ । यज ष्येथ विस्सृष्टानि याज्ञवल्क्येन वै दिजः । नगृहुतित्तिरा भूत्वा तैत्तिर्यास्तु ततः स्मृताः । १२ । ब्रह्महत्या - व्रतं चीर्णं गुरुणा नोदितं तु यैः । चरकाध्वर्यवस्ते तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com