________________
चरणम्यूहपरिशिष्टभाष्ये । रयाज्ययाजनादग्राह्यग्रहणात् षह्निर्ब्राह्मणस्य लोहितकरणात्पशुहननात्सुवर्णस्तेयात्पतिसंयोगाच्च स
प्रभिः प्राजापत्यस्य हौनचरणाद्यज्ञोपबन्धनाञ्चाष्ट
भिश्चान्द्रायणगुरुतल्पगमनाद्रजखलागमनाच्च नवभिः सुरापानाद्दशभिः पुनर्जन्मेह जन्मकृतैः सर्वैः पापैः प्रमुच्यते स्वर्ग लोकं गच्छतीति । चग्निष्टोमादिक्रतुभिरिष्टं भत्रति । पितृन्त्वगँ लोकं गमयति । वेदाध्यायो सदैव स्यादपाप्मा सत्यवाक् शुचिः । यं यं कामं कामयते तं तं वेदेन साधयेत् । असाध्यं नास्ति यत्किञ्चिद्रह्मणो हि फलं महत् । ऋग्विधाने । आदा
२६
ਰ सावित्रा कर्म कुर्वीत शान्तये । पुष्टये पशुलाभाय धनलाभाय भूतये । एषा हि संहिता देवैः सब्रह्ममयौ निचत् उग्रेण तपसा दृष्टा विश्वामित्रेण धीमता । होमांश्च जपयज्ञांश्च नित्यं कुर्वीत वै तथा । सर्वकामप्रसिध्यर्थं परं ब्रह्मेदमुच्यते । एषा प्रतिलोमोक्का शत्रुपक्षविनाशिनी । अक्षरप्रतिलोमेयमभिचारेषु शस्यते । सर्वसंहितया प्रत्यृचं होम आज्येन तिलेन वा । " भाव्यं द्रव्यमनादेशे जुहोतिषु विधीयते" इति ब्राह्मोक्तेः । सर्वपापहरो होमस्तिलैः सर्वत्र शस्यते । इति विष्णुधर्मोत्तराञ्च । शातातपः । कृच्छ्रो देव्ययुतं चैव वेदपारायणं तथा । तिलहीमसहखं च सममेतच्चतुष्टयम् । इदं केवलम् । अन्त्येचान्द्रमसम । इति कमलाकरभट्टकृतो वेदपारायणविधिः समाप्तः । व्याख्या चरणव्यूहस्य पाद्यखण्डस्य
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com