SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्राक्कथनम् । प्रायो न कोऽपि सत्प्रेक्षावानद्योत्प्रेक्षापथमवतरति यः प्रत्याचक्षीत प्रमाणप्रकरसिद्ध प्रतिप्राणिप्रसिद्धञ्च धर्मस्यैव निर्बाधमैहिकामुष्मिकश्रेयःप्रसवित्वम् । धर्मश्चातीन्द्रियतया नार्वाग्दगध्यक्षसाक्षिकतामहतीतिकृत्वा आगमतदुपोदलितानुमानयोरेव खसाक्ष्यमुपक्षिपति । परमागमानां सूत्ररूपेणाचार्यप्रणीतानामौत्सर्गिकशब्दसंकोचोदश्चद्विविधविचिकित्साव्याधिव्याधूयमानं तात्पर्यश्चिकित्सामपेक्षते निदाननिरूपणपुरस्कृतेन मीमांसोपस्कृतेन निर्णयामृतेन, इतरथा धर्मतत्त्वमेव न प्रतिष्ठातुमर्हति, न तरामनुष्ठातुम्, न तमाञ्च श्रेय आधातुमिति जगदिदमनर्थगर्ने निपत्य वर्तेत । निर्णायकैस्तु विचिकित्सितपक्षयोन जातु मनागप्येकतरपक्षपातुकैः सूक्ष्मैक्षिकयोभयपक्षाशेषरहस्यविशेषगवेषणधुरीणधिषणैर्मीमांसोपयोगिन्यायनिचयपूर्णपरिचयचतुरस्रविचारणैर्भवितव्यम्, अन्यथा वैद्यापसदेन व्याधेरिव विचिकित्साया निस्तारानुपपत्तेः, प्रत्युत विस्तारापत्तेश्च, यथाऽस्माकं पर्वतिथिवृद्धिविषयकविचिकित्सायाः । इत्यालोच्य निरुक्तगुणकनिर्णायकान्वेषणप्रवणस्य मे निरन्तरनिगमागमतात्पर्यानुसन्धानरसिकाः काशिका एव विपश्चितश्चेतसि व्यभासन्त । तेषु च काशिकहिन्दुविश्वविद्यालयप्राच्यविभागधर्मविज्ञानविभागाध्यक्षा, धर्ममीमांसायामभिनवभट्टपादा, महामहोपाध्यायश्रीचिनखामिशास्त्रिण एव निर्णायकसमितेरध्यक्षत्वेन वृता, नीरक्षीरविवेकन्यायेन मीमांसामसृणसरण्या पं. श्रीतुलाकृष्णझाकृतनिर्णयसंवादि व्यवस्थापत्रमिदं सम्यगुपबृंहयामासुः परे धीरधौरेया अन्ये बहवो महामहोपाध्यायाः पण्डितराजप्रभृतयोऽनुमोदयामासुश्चेति तत्सर्व सङ्कलय्य जीताचारपरम्परायाः शाश्वतिकत्वसिषाधयिषया मया प्रकाशयितुमायास्यते, आशास्यते च तत्त्वैकपक्षप्रणयिनो मत्प्रयत्नेन प्रसद्य खव्यवहारमव्याहतं विदधीरन्नितिकृतमधिकेन । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy