SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ (२४) ... [शासन ग्रन्थाः अपरं तेषु निन्दा शापो वा न निन्दायै शापाय वा प्रावर्तेताम् । अपि तु नहि निन्दान्यायेन प्रतिपाद्यविषयस्तवनाय । नहि निन्दा निन्द्यं निन्दितुं प्रवृत्ता। अपि तु विधेयं स्तोतुं इति हि तन्न्यायस्वरूपम् । अतश्शापादीनां स्वार्थे तात्पर्याभावान्न प्रामाः ण्यविघटकत्वमप्रामाण्यापादकत्वं वेति सिद्धम् । इदं च निःसंदिग्धमवगम्यते-यः श्रीसागरानन्दसूरिभिः मध्यस्थाय प्रदर्शितो लघुकायो ग्रन्थः स न तैः स्वयं प्रणीत इति । यतो मध्यस्थ एव स्पष्टमङ्गीकरोति स ग्रन्थो वैक्रमीयपञ्चनवत्युत्तराष्टादशशतवर्षात् (१८९५) पूर्वकालिक इति । यावत् स ग्रन्थो न प्रमाणान्तरैर्विरन्धे, न वा प्रमाणान्तरैर्बाध्यते तावत् को वा कथं वा तस्य प्रामाण्यं विहन्तुमीष्टे ? । एवं च कश्चित् कञ्चन पक्षं मध्यस्थस्य पुरत उपस्थाप्य तत्परिपोषणाय प्राचीनं कश्चन ग्रन्थं महाजनपरिगृहीतं निर्दिशति चेत् प्रमाणान्तराविरुद्धं तस्य स्वकपोलमात्रकल्पितैर्हेत्वाभासैर्निरसनं न मध्यस्थस्य प्रौढिमानमावहति । • अन्यच्च श्रीमदाचार्यसागरानन्दसूरिप्रदर्शितानां सर्वेषां ग्रन्थानां निर्मूलमप्रामाण्यमापादयन् मध्यस्थः जैनागमानां सर्वेषामेव प्रायः शोऽप्रामाण्यकुक्षौ पातयितुमिच्छतीति कियदिदं साहसं मध्यस्थस्येति विभावयन्तु विपश्चितः । तथाहि-"दृष्टाः खल्वस्माभिः काश्चन मुद्रिताः पुस्तिकाः यास्वाचार्यश्रीसागरानन्दसूरीणां अभिः प्रेतेन प्रकारेणोमास्वातिवचनस्य व्याख्याः कृता दृश्यन्ते, किन्तु आचार्यश्रीसागरानन्दसूरिभिः स्वमतसिद्धये ता अनुपन्यस्यद्भिः समीचीनमेवानुष्ठितमित्यभिप्रेयतेऽस्माभिः। उपरिनिर्दिष्टमतपत्रकमिव तासामपि प्रामाण्यविषये संशीतिरेव नश्चेतसि" इति पूर्व मध्यस्थो वदति । अनन्तरं च "स्वाभिमतसिद्धये यानि शास्त्राणि समुपन्यस्तानि तानि च शास्त्राभासान्येवे"ति वदति । एतेनेदमवगम्यते-"क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिवच प्रघोषत्वेन प्रसिद्धस्यास्य वचनल्याचार्यश्रीसागरा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy