________________
का ]
(१९)
परिहाराय भाद्रपद शुक्लचतुर्थ्या तत् परावर्तितमासीत् । ततम्यति भाद्रपद शुक्लचतुर्येव सा सांवत्सरिका पर्वतिथिस्समपद्यत । पञ्चम्यास्तु तत्पर्वतिथित्वमेव गतम् । अतश्च भाद्रपद शुक्लचतुर्थ्या एवं तत्पर्वतिथित्वात् तत्पञ्चम्याः पर्वानन्तरपर्वतिथित्वमभ्युपगम्य तृतीयायाः क्षयवृद्धिसम्पादनं श्रीमदाचार्यसागरानन्दसूरीणामनावश्यकमिति मध्यस्थो ब्रवीति । तदिदमसङ्गतम् । हीरप्रश्नेपञ्चमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते इति प्रश्नमुत्थाप्य यदा पञ्चमीतिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते इति सामान्यत एव पञ्चमीनिर्देशात् तत्र भाद्रपदशुक्लपञ्चम्या व्यावृत्त्यदर्शनात्, “बीया पञ्चमी अडमी एगारसी चउदसी पणतिहिओ । एआओ सुयतिहीओ गोयमगणहारिणा .मणिया " इति गाथायां सामान्यत एव पञ्चमीग्रहणात् गीतार्थाचीर्णत्वेन परम्पराव्यवहारेण च पञ्चम्यास्सामान्यपर्वतिथित्वमस्त्येव । कालकाचार्येण प्रधानपर्व तिथित्वस्यैव परिवर्तनात् । पर्वतिथित्वं च नियताराधनाधिकरणत्वम् । तच्चाष्टमीचतुरिवान्यासामपि तिथीनामस्त्येव बह्वीनाम् । जैनागमेषु तथा दर्शनात् । तथाहि - आवश्यकचूर्णो - " अट्ठमीपन्नरसीसु य नियमेण हविज पोसहिओ" इति, व्यवहारवृत्तौ - एतेषु चाष्टम्यादिदिवसेषु चैत्यानामम्यक्सतिगतसुसाधूनां वा अवन्दने प्रत्येकं प्रायश्चित्तम्" इति । श्रीतत्त्वार्थदीकायां हारिभद्रीयायां " प्रतिपदादिषु अनियमं दर्शप्रति, अष्टम्यादिषु नियमः” इति श्रीतत्त्वार्थसिद्धसेनटीकायां "अनेन चान्वासु तिथिषु अनियमं दर्शयति, नावश्यंतयाऽम्बार कर्तव्यः, अष्टम्यादिषु तु नियमेन कार्यः” इति । एभिर्वचनैरष्टम्याविषु पर्वतिथिषु बह्वीषु तपसो नियतत्वस्य स्पष्टमेव प्रतिवाद: नात् । एतेन मध्यस्थेन सप्तमविवादारम्भे निर्णयपत्रस्य नवमपृष्ठे-"पाक्षिकं प्रतिक्रमणं चतुर्दशीतिथिनियतमाराधनं, तथा श्रीवत्सरिकं प्रतिक्रमणं भाद्रपद शुक्लचतुर्थीनियतमाराधनमिति
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com