________________
[शासनअमाषोडशभागेन, देवि! प्रोक्ता महाकला । संस्थिता परमा माया, देहिनां देहधारिणी ॥१॥ अमादिपौर्णमास्यन्ता, या एव शशिनः कलाः । तिथयस्तास्समाख्याताषोडशैव वरानने ! ॥२॥
इति स्कन्दपुराणवचनात् , "तन्यन्ते कलया यस्मात् , तस्मात्तास्तिथयस्स्मृताः।" इति सिद्धान्तशिरोमणिवचनात्, “यस्सूर्याचन्द्रमसोः परमो विप्रकर्षस्सा पौर्णमासी, यः परमस्सन्निकर्षः साऽमावास्या,” इति गोभिलगृह्यवचनाच्च । अतश्च सूर्येण सहातिसन्निकृष्टस्य चन्द्रस्य यावता कालेन सूर्यात् द्वादशभिरंशैविप्रकर्षो भवति तावान् कालश्शुक्लपक्षे प्रतिपच्छन्दवाच्यः । एवं द्वितीयादिपूर्णिमान्ताः । एवं सूर्यादतिविप्रकृष्टस्य चन्द्रस्य यावता कालेन द्वादशभिरंशैस्सन्निकर्षों भवति तावान् कालः कृष्णपक्षे प्रतिपत्तिथिः । एवं क्रमेणामावास्यान्ताः । पौर्णमास्यां विप्रकर्षतारतम्यविश्रान्तिः। अमावास्यायां सन्निकर्षतारतम्यविश्रान्तिः । अत एव तिथिशब्दः प्रतिपदादिशब्दाश्च चन्द्रकलास्वेव शक्काः । काले तु निरूढलक्षणया प्रयुज्यन्त इति स्थितिः।।
एवं च सप्तमी नाम संख्याविशेषविशिष्टा चान्द्रमसी कला । तदवच्छिन्नः कालो वा । तत्र विशिष्टे प्रवर्तमानो विधिः विशेष्यभूतायाः कलायास्सर्वत्राऽविशेषात् “लोहितोष्णीषा ऋत्विजः प्रचरन्ति” इतिवत् विशेषणीभूते संख्याविशेषे पर्यवस्यति । तथाहि-श्येनयागप्रकरणे श्रूयते-"लोहितोष्णीषा लोहितवसना निवीतिन ऋत्विजः प्रचरन्ति" इति । उष्णीषं शिरोवेष्टनवस्त्रम् । प्रचरणं कर्मानुष्ठानम् । श्येनयागानुष्ठानकाले कर्मकरा ऋत्विजः रक्तवर्णमुष्णीषं वस्त्रं च परिधाय कर्म कुर्युरिति तदर्थः । तत्र ऋत्विजो न विधातव्याः। तेषां ऋत्विजो वृणीते, वृता यजन्ति,” इति प्रकृतिदृष्टवाक्याभ्यां विधानात् "प्रकृतिShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com