________________
भगोपीनाथदीक्षितविरचितः - वाक्यतापत्र औगात्रशास्त्रैकवाक्यतापनो वा तत्तद्विषये भवति स एव प्राय इति सर्व रमणीयम् । बृहन्नारदीये
विष्यर्पितानि कर्माणि सकलानि भवन्ति हि । अनर्पितानि कर्माणि भस्मान न्यस्तहव्यवत् ।। नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षसाधनम् ।
अर्पितं विष्णवे सर्व सात्त्विकं सफलं भवेत् ।। इति । विष्णुस्मरणात्सर्वं पूर्ण भवति । तथा च स्मृतिः
प्रमादाकुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः ।। इति । अनाज्ञातादिमन्त्रत्रयजपवैष्णव्यग्नपव्याहृतिजपाः सर्वसंधानार्थं वक्तव्याः । तथा च स्मृत्यन्तरे
अनाज्ञातादित्रितयं वैष्णवी मृचमेव च ।
समस्तव्याहृतीश्चैत्र जपेद्यज्ञस्य पूर्तये ॥ इति । सर्वयाज्ञिकोपयोगायायमुपोद्धात उक्तः । अयं दर्शपूर्णमासाद्यर्थोऽपि भवति । न तु केवलं सोमार्थ एवेति द्रष्टव्यमिति दिक् ।। इति श्रीमदोकोपाह्वश्रीगणेशदीक्षिततनूजगोपीनाथदीक्षितविरचि
ज्यमाणसूत्रव्याख्यानोपयोगिसर्वशेषभूतोपोद्धातः समाप्तः।
-
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com