SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः । यक्ष्य इति कृत्वाचिक संकल्पः । तत्र श्रूयमाणं फलमनि कामनाविषयस्वेनानुवदेदमुककाम इति तद्वाक्यशेषत्वेन । अन्यथा तत्फलस्यानन्वये संकल्पवाक्यम् समर्थ स्यात् । यागेन भावयिष्य इत्युक्ते किमित्याकाङ्क्षा जायते तत्पूरणायामुककाम इति वक्तव्यमित्यर्थः । अत एवान्यफलकमणि ऋतिकर्तृत्वविधानार्थं यजतीति परस्मैपदनिर्देशः । समस्ते साझेोऽपि क्रतौ साध्यत्वेनेष्टं भावयेदित्युक्तं तच्च यज्ञारम्भे प्रधान फ लमङ्गारम्भे चाङ्गप.लमित्युक्तं भवति । तुशब्देनोत्सर्गबाघो न सर्वत्रा ङ्गेष्वर्थवादैः फलकल्पना नाप्यङ्गेषु पलश्रुतिरर्थवाद एवेति किंतु नित्येषु फलनिरपेक्षया विधिश्रुत्वा फलवत्मधानाङ्गेषु तथा नियतेषु फलभावेऽपि नियमेनानुष्ठेयेषु यज्ञाङ्गेषु यज्ञफलवत्तया फलवत्सु यान्ययमानानि पुरुषेण नित्याङ्ग साध्यानि कामयतिधातुः श्रावयत्यभिधयैव बोधयति तान्येवाङ्गफलानि नान्यानि तान्येव यजमान एवं कामयत इति । उदाहरणमाह-यथाऽऽयारस्पोर्ध्वतायां नीचैस्तायां चेत्येतेनोव माघारयेत्स्वर्गकामस्य न्यञ्चं दृष्टिकामस्येति । यथा यजगन एत्र ६९ काम ते तथा यान्कामयेत यजमानः सं भावयत्येनानिति व्याहृतिविधाने स्थानविशेषलक्षणो गुणो यजमान फलार्थं विधीयमानो यजमानेनैव कामयितव्यः संकल्पेनेत्यर्थः । एत्सूत्रे नियमविधानेन फलितां परिसंख्यां दर्शयति- अर्थवादा इतर इति । अधारस्येत्यनुवर्तते । आघारगतगुणविध्यर्थवादा इतर इत्यर्थः । यथा संततमाघार यतीत्यत्र प्राणानामन्नाद्यस्य संतत्या इत्येवमादयोऽर्थवादा आघारयौ - स्तथाऽन्येष्वपि नियतेषु यज्ञाङ्गषु प्रकारान्तरसिद्धा अर्थवादा ए त्याह-- तथाऽन्येषु यज्ञाङ्गेपु पुरीपवतीं करोति प्रजयैवैनं पशुभिः पुरीपवन्तं करोतीत्यादिना जमाने दधातीतीत्यन्तेन । इतीति नानाप्रकाराणामर्थवादाना ग्रहणार्थम् । अन्यच्च याजमानसूत्रे - द्रव्यसं कल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्य जपाचेति । यज्ञाङ्गभूतं द्रव्यं सिद्धं जात्यादिना पश्चादङ्गत्वेन तत्तदविहितमपि नविग्भिः संकरूप्यं तत् । न हि तत्र तत्र पेढे संपादनं विधीयतेऽपि तु सिद्धस्याङ्ग तातो द्रव्यकल्पनं पूर्वमर्थसिद्धं रुत्तु स्वार्थसिद्धयर्थं यजमान एव कुर्यात् । नहि तंत्र ऋत्विजो दक्षिणालोमेन प्रवृत्ताः स्वयं व्ययं कर्तुं प्रभवन्ति । अत आज्यत्री हितण्डुल पशुगोजावादीनां संपादनं यजमानः स्वद्रव्यव्ययेन साक्षाद्वाऽन्येन वा संपादयेत् । अत्र यजमानग्रहणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy