SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ भट्टगोपीनाथदीक्षितविरचितःअहोरात्रेक्षगो दिव्यो वेदान्तश्रुतिभूषणः । सुवतुण्डश्चाऽऽज्यनासः सामघोषस्वनो महान् ॥ धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्क्रियः । प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः ॥ औद्ात्रान्त्रो होमलिङ्गः फलबीजमहौषधिः । वाय्वन्तरात्मा मन्त्रस्फिम्विकृतः सोमशोणितः॥ वेदीस्कन्धो हविगन्धो हव्यकन्यातिवेगवान् । उपाकर्मोष्ठचिबुकः प्रवग्यावर्तभूषणः ॥ नानाछन्दोगतिपथो गुह्योपनिषदा समः । छायापत्नीसहायो वै मेरुशृङ्गमिवोच्छितः ॥ इति । स्मृत्यन्तरे त्रिमात्रः प्रणवो वाच्यः कर्मारम्भे मनीषिभिः॥ इति । सुमुखश्चैकदन्तश्चेत्यादीनि द्वादश नामानि मङ्गलार्थ पठेत् । गणेश'पुराण उक्तत्वात् । एवमन्यानपि श्लोकान्मङ्गलार्थ पठेत् । मार्कण्डेयः संकल्प्य विधिवकुर्यात्स्नानदानव्रतादिकम् ॥ इति । रमृत्यन्तरे संकल्प्य विधिवत्कुर्यात्स्नानदानव्रतार्चनम् । जपं होमं च यागं च विवाहादि च मङ्गलम् ।। इति । विष्णुरपि संकल्प्य च यथा कुर्यात्स्नानदानव्रतादिकम् । अन्यथा पुण्यकर्माणि निष्फलानि भवन्ति हि ॥ इति । यथा यथावदित्यर्थः । पुण्येत्युक्ते जनादौ दृष्टार्थे न संकल्पः । कालहेमाद्री ___ स्मरेत्सर्वत्र कर्मादौ चान्द्रसंवत्सरं सदा ॥ इति । देवल: मासपक्षतिथीनां च निमित्तानां च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ।। इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy