SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ६४ भट्टगोपीनाथदीक्षितविरचितः-- सर्वेषु धर्मकार्येषु पन्नी दक्षिणतः सदा । अभिषेके विप्रपादक्षालने वामतो भवेत् ।। इति । संभवे बोधायनसूत्रोक्त पवनमन्त्राचमनमन्त्रप्रोक्षणान्यपि कार्याणि ऋत्विम्भिर्यजमानेन पन्या च । आदौ गणपनिपूजनं कर्तव्यं निर्विघ्नार्थत्वात् । न ऋते त्वत्क्रियत इति लिङ्गात् । नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः । तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु ।। इति पद्मपुराणाच । तत्तः पुण्याहवाचनम् । गर्गः गर्भाधानादिसंस्कारोष्विष्टापूर्तक्रतुष्वपि । वृद्धिश्राद्धं पुरा कार्य कर्मादौ स्वस्तिवाचनम् ॥ इति । मार्कण्डेयः देवार्चनादिकर्माणि तथा गुभिवन्दनम् । कुर्वीत सम्यगाचम्य प्रयतोऽपि सदा द्विजः ॥ इति । मयतोऽपि शुद्धोऽपीत्यर्थः । स्मृत्यन्तरे स्त्रीणां चैवाथ शूद्राणां सकृदाचमनं भवेत् ।। इति । यत्पुरुषाणां त्रिवारं तदेव । एतच्च द्विवारं तथा स्मृत्यन्तरे सर्वकर्मस्वप्याचामेदादौ द्विश्चान्ततो द्विजः ।। इति । संध्यासमुच्चायकोऽपिरत्र ज्ञेयः । याज्ञवल्क्यः -- स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्योपसर्पणे । आचान्तः पुनराचामेजपहोमार्चनेषु च ।। इति । बोधायन: भोजने हवने दान उपहारे प्रतिग्रहे । हविर्भक्षणकाले च द्विदिराचमनं स्मृतम् ।। इति । हारीत:___ सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत् ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy