________________
उपोद्घातः। छन्दोगपरिशिष्टे
यत्र दिनियमो न स्याजपहोमादिकर्मसु ।
तिस्रस्तत्र दिशः शम्ता ऐन्द्री सौम्यपराजिता ॥ इति । एन्द्री प्राची । सौम्युदीची । अपराजितैशानी । दिनियमो दिगाममुखतानियमो यत्र नोक्तस्तत्र प्राच्युदीच्यैशान्यन्यतमदिगभिमुखता भवेदित्यर्थः । सूत्रकारेण विशेपानुक्तेस्त्रितयमप्यभिमतं न तु तस्य नित्याः प्राञ्चश्चेष्टा इत्याश्वलायनोक्तवत्माङ्मुखकरणं चानादेश इति लाट्यायनद्राह्यायणोक्तवच्च प्राङ्मुखतैव भवतीति द्रष्टव्यम् । छन्दोग. परिशिष्टे
आसीन ऊर्वः प्रह्वो वा नियमो यत्र नेहशः ।
तदासीनेन कर्तव्यं न प्रह्वेन न तिष्ठता ।। इति । ऊर्ध्वस्तिष्ठन्नित्यर्थः । न चैतस्य शास्त्रस्य सर्वत्र स्वीकार आसीनः प्रणवे प्रणवे समिधमादधातीत्यत्राऽऽसीनग्रहणस्य वैयापत्तिरिति वाच्यम् । एतस्याऽऽसीनग्रहणस्य महाग्निचयनविशिष्टे क्रताचारोहणतिष्ठत्तयोः समिदाधान इच्छातः प्राप्तयोरासीनग्रहणं नियमार्थम। आसीन एव प्रणवे प्रणवे समिधमादधातीत्येवं रीत्या सार्थक्यसंभवे. नैतस्य शास्त्रस्य महाग्निचयनरहिते क्रतो सर्वत्र स्वीकारे बाधकाभावात् । तेन महाग्निचयनविशिष्टे क्रतावन्यत्रानियमः । महानिचयनरहिते क्रतो तु विशिष्टवचनं विना सर्वत्राऽऽसीनतैवेति सिद्धं भवति । देवकर्मणि रजतं न देयमित्याह श्रुतिः-यदश्वशीर्यत तद्रज़त हिरण्यमभवत्तस्माद्रजत५ हिरण्यमदक्षिण्यमश्रुज हि यो बर्हिषि ददाति पुराऽस्य संवत्सराद्हे रुदन्ति तस्मादर्हिषि न देयमिति । बर्हिषि यज्ञे । बैजचापोऽपि
शिवनेत्रोद्भवं यस्मात्तस्मात्तत्पितृवल्लभम् ।
अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत् ॥ इति । व्यास:
दानं प्रतिग्रहो होमो भोजनं बलिरेव च ।।
साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ॥ इति । साङ्गुष्ठेनाङ्गुलिसंगताङ्गुष्ठेनेति हेमाद्रिः । बौधायन:
भोजनं हवनं दानमुपहारः प्रतिग्रहः । बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com