________________
उपोद्घातः ।
वत्त्वं यजमानकर्तृकत्वं चातिदिश्यते । उपतिष्ठत इत्यादीनां जपवाचकस्वेऽपि शब्दान्तरैरर्थभेदात्कर्मभेदो ज्ञेयः । यथा धात्वनुशासन सूत्रेषु यज दाने, हु दाने, डुदाञ् दाने, इत्यादीनां समानार्थत्वेऽपि रूढ्याऽर्थभेदादपर्यांयत्वेन शब्दान्तरैः कर्मभेद एवमन्यत्रापि । सर्वत्रो पस्थानादिषु जपत्वे सत्यपि चासाधारण्येन व्यपदेशा भवन्तीति न्याया न्नागृहीतविशेषणान्यायेन चोपसर्गविशिष्टैर्धातुभिर्विशिष्टमेव वाच्यमिति विशिष्टानामेव व्यपदेशः । उपस्थानमनुमन्त्रणमभिमन्त्रणमभिमर्शनमिति । केवलेs पूर्वोत्पादके मन्त्रोच्चारणे तु जर इति व्यपदेशः । उबारणप्रधानता तु सर्वत्र न व्यभिचरतीति युक्ततरं सूत्रमिति व्याख्यातृभिर्व्याख्या तम् । चकार इतिकरणस्य प्रत्येकं संबन्धार्थः । अविज्ञातस्वरा ये मन्त्रास्त एकश्रुत्यैव वक्तव्या इति जयन्तः । परिभाषासूत्रे - यज्ञकर्मार्था मन्त्रा रूपविप्रतिषेधालौकिकेषु यथा गृह्णामि ते सुप्रजारत्वाय हस्तमिमां खनाम्योषधिम् । वह वषां जातवेदः पितृभ्य इति यथोपदिष्टं ब्राह्मणवन्तो यथारूपभितर इति । यथारूपमितर इत्यनेनाविनियुक्तानां विनियोगः सामान्यतः प्रदर्श्यते । अन्यच्च तत्रैव – उपाश्शु यजुर्वेदेन क्रियतेऽन्यत्र प्रत्ररसंवादाश्रावणसंप्रेषेभ्य उच्चैरितराभ्या सर्वेरुपाशु ज्योतिष्टोमे प्रागश्रीषोमीयादिति । सर्वे जुर्वेदर्वेद सामवेदैः । उपांशुलक्षणं प्रातिशाख्येकरणवदशब्दममनःप्रयोग उपांश्विति । परिभाषासूत्रे - - यावदर्थोऽपट - ज्यते स एको मन्त्र इति । यावदित्यस्य यावतेत्यर्थः । सुपां सुलुगित्यनेन सुपो लुक् । तथा — आदिप्रदिष्टा मन्त्रा भवन्त्युत्तरस्याऽऽदिना पूर्वस्यान्तं विद्यादिति । तथा मन्त्रान्तेन कर्म संनिपातयेदिति । मन्त्रान्त्याक्षरोच्चारणसमकालं कर्मारम्भ इत्यर्थः । अत्राऽऽपस्तम्बो विशेषमाह-- आघारे धारायां चाऽऽदिसंयोग इति । तथा -- एकमन्त्राणि कर्माणीति । अत्राऽऽपस्तम्बो विशेषमाह — अपि संख्यायुक्तानीति । वायुपुराणे -
मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽणनात् ॥ इति ।
अत्र मन्त्रयतिरर्थाविष्करणरूपार्थे वर्तते साक्षात्परम्परया वाक्येन चेति ज्ञेयम् | ब्रह्मणो वेदस्याणनाद्विधानादित्यर्थः । सूत्रलक्षणमपि तत्रैव—
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४९
www.umaragyanbhandar.com