SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ साध्वी व्याख्यान निर्णयः बुड्डाणं तरुणाणं रत्ति अजा कहेइ जो धम्मं । सा गणिणी गुणसायर! पडिणीआ होइ गच्छस्स ॥ ११६ ॥ व्याख्या-" बुड्डाणं "-वृद्धानां स्थविराणां-तरुणानां-यूनां-पुरुषाणां केवलानामकेवलानां वा " रत्तिं " ति " सप्तम्या द्वितीया " (८-३-१३७) इति प्राकृतसूत्रण सप्तमीस्थाने द्वितीयाविधानात् रात्री या आर्या गणिनी "धम्म” ति धर्मकथां कथयति, उपलक्षणत्वादिवसेऽपि या कवलपुरुषाणां धर्मकथां कथयति, गुणसागर ! हे इन्द्रभूते ! सा गणिना गच्छस्य प्रत्यनीका भवत्ति, अत्र च गणिनी ग्रहणेन शेषमाध्वीनामपि तथा विधाने प्रत्यनीकत्वमवसेयमिति । ननु कथं साध्व्यः केवल पुरुषाणामग्रे धर्मकथां न कथयन्ति ? उच्यते-यथा साधवः केवलानां स्त्रीणां धर्मकथां न कथयन्ति, तथा साध्व्योऽपि केवलानां पुरुषाणामग्रे धर्मकथां न कथयन्ति, यत उक्तं श्री उत्तराध्ययने: "नो इत्थिणं कहं कहित्ता हवइ स निग्गंथे । तं कहमिति ? आयरियाहनिग्गंथस्स खलु इत्थाणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छावा समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं भवेज्जा, केवालपन्नताओ वा धम्माओ भंसिज्जा, तम्हा खलु निगंथे नो इत्थीणं कहं कहेज्ज" त्ति नो " इत्थीणं" ति-नो स्त्रीणां एकाकिनीनां कथां कथायिता भवति । यथदं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसमाधिस्थानं साधुनामुक्तम्, तथा साध्वीनामप्येतत् युज्यते, तच्च साध्वीनां पुरुषाणामेव केवलानां कथाया अकथने भवतीति तथा "स्थानाङ्गेऽपि" "नो इत्थीणं कहं कहेत्ता हवह इदं नव ब्रह्मचर्यगुप्तीनां मध्ये द्वितीयगुप्तिसूत्रं, अस्य वृत्ति:-"नो स्त्रीणां केवलानामिति गम्यत । धर्मदशनादिलक्षणवाक्यप्रतिबंधरूपामित्यादि यथा च द्वितीयों गुप्तिं साधवः पालयन्ति, तथा साध्व्योऽपि पालयन्ति सा च रवीनां पुरुषाणामेव कवलानामग्रे कथाया अकथने भवतीत्यतः प्रोच्यते, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034600
Book TitleSadhvi Vyakhyan Nirnay
Original Sutra AuthorN/A
AuthorManisagarsuri
PublisherHindi Jainagam Prakashak Sumati Karyalay
Publication Year1946
Total Pages64
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy