________________
लोहसर्वस्वम् ।
सप्ताङ्गलोहम् ।
कनकताप्यरसाम्बुदगन्धकद्युमणि लोहरजः सममात्रकम् ॥ त्रिफलया समया मधुसर्पिषा जयति लीढमशेषमथामयम् ॥ गिरिजगन्धकताप्यरसाम्बुदद्युमणिलोहसुवर्णरजः समम् ॥ मधुयुतेन विलीढमिदं नृणां सकलरोगचयं विनिकृन्तति ॥
इति सर्वशः प्रयोगाः ।
एतेषु दोषबलकालवयोनुरूपं
बुद्ध्या विकल्प्य सकलान्यपि भेषजानि ॥
'३३
योगप्रपश्चनिचये रचनासु मात्रा
वैचित्र्यमत्र विधित विशालबुद्धिः ॥ ३१४ ॥
एतत्सुरेश्वरकवीश्वरवाग्विलासलावण्यधन्यपदपद्धतिसिद्धरूपम् ॥
भूयाद्भवाय विभवाय चिराय लोहसर्वखमुज्ज्वलधियां विपुलश्रिये च ॥ ३१५ ॥
इति लोहसर्वस्वं समाप्तम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com