________________
प्रथमं गीर्वाणसाहित्यसोपानम् । लोभात् क्रोधः प्रभवति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ ५॥ आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥६॥ नरस्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ ७ ॥ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ ८॥ हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् । श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥९॥
अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् । अमृतं राजसंमानममृतं क्षीरभोजनम् ॥१०॥ सत्येन रक्ष्यते धर्मों विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ ११ ॥ श्रोत्रं श्रुतेनैव न कुण्डलेन
दानेन पाणिनं तु कङ्कणेन । विभाति कायः परमं नराणाम् ____परोपकारैर्न तु चन्दनेन ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com