________________
पञ्चमः सर्गः ।
रवेरिवाब्जिनी तस्य दर्शनात् तुष्यति स्म च ॥ २९७ ॥ वीक्ष्य सा नयनानन्ददायिनं प्राणवल्लभम् । प्रोचे पल्लीपतिं पाणौ बिभ्राणमसिवल्लरीम् ||२९८ || भ्रातर्वधार्थमानीतो योऽसौ त्वत्पुरतो नरः । सोऽयं त्वद्भगिनीभर्ता बन्धुदत्ताभिधः खलु ॥ २९९ ॥ पल्ळीशस्त्यक्तनिस्त्रिंशः द्राग् बन्धोः पदयोः पुरः । निपत्य क्षमयामास स्वमन्तोः परिकल्पनाम् ॥ ३००॥ स्वामिन्नज्ञानविज्ञानमुकुलीकृत चक्षुषा ।
आभीरेणैव माणिक्यं नोपालक्षि मया भवान् ॥३०१ ॥ अतो दुर्बुद्धिघोरेये क्षम्यतां क्षम्यतां मयि । बभाषे भिल्लभर्त्तारं बन्धुन्धुरवागथ ॥ ३०२ ॥ भद्र ! नो तव दोषोऽयमज्ञानवशवर्त्तिनः । नाज्ञानादपरं कष्टं पारतन्त्र्यादिवासुखम् ॥ ३०३ ॥ मन्तुमानपि जातोऽसि भूयिष्ठोत्कृष्टतुष्टिकृत् । कल्पवल्लीमिव प्राणवल्लभां यदमेलयः ॥ ३०४ ॥ किञ्च किं कर्म भवता प्रारभे दुःसुनिष्ठुरम् । चण्डसनोऽववीदेतच्चण्ड सेनापयाचितम् ॥ ३०५ ॥ बन्धुः स्माह च पूज्यन्ते पुष्पाद्यैः खलु देवताः । न तु जीववधैः श्वभ्रपथदीप्रप्रदीपकैः ॥ ३०६॥ बन्धुदत्तोऽभिधत्ते स्म मार्ग पल्लीपतेः पुरः । अहिंसा सूनृताऽस्तेयब्रह्माऽमूर्च्छकलक्षणम् ॥३०७॥ भद्रास्मिन् पथि पथिकैर्निर्वाणपुरी गम्यते । अतोऽमुत्र हितायास्मिन् मार्ग स्थेयं त्वयाऽनिशम् ॥ ३०८ ॥ श्रुत्वेति वचनं बन्धोर्भिल्लाः पल्लीश्वरादयः । भेजिरे ते भद्रकत्वं फलं सत्सङ्गभूरुहः ॥ ३०९ ॥ दम्पत्योर्मेलनात् पूर्णसङ्गरः शबरेश्वरः । अमुचद् बलये बद्धान् बन्धुदत्तगिरा नरान् ॥३१० ॥ बन्धुदत्तोऽपि वीक्ष्यैनां स्वप्रियां प्रियदर्शनाम् । देवानुकूलता स्वस्मिन्नमन्यत महामतिः ॥ ३११॥ प्रोत्फुल्ललोचनं बन्धुदत्ताय प्रियदर्शना । पुत्रमादाय पाणिभ्यां मुदङ्करमिवार्पयत् ॥३१२ ॥ तमादाय सुतं बन्धुरुपालक्षयति स्म सः । स्वपत्न्यै मातुलं स्वञ्च साऽपि तं सत्रपाऽनमत् ॥३१३७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१७९
www.umaragyanbhandar.com