SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७२ पार्श्वनाथचरित्रे वीक्ष्यैनं दुःखितं हंसं दुखं तस्याऽभवद् भृशम् । परस्मिन् दुःखिते दृष्टे स्युः सन्तोऽपि हि तन्मयाः ॥१८॥ इतः पयोजिनीपत्रपिहितां प्रेयसी निजाम् । संवीक्ष्य तस्या अभ्यणे रंहसा हंस आययौ ॥१८३।। इमौ सम्मिलितो दृष्टा ध्यातवानेवमिभ्यभूः। जीवतां खलु जन्तूनां संगमो हनयोरिव ॥१८४॥ व्रजामि तदहं जीवन्निजां नागपुरी तदा। अथवा गमनेनाऽलं तत्र मे गतसम्पदः ॥१८५॥ कोशम्ब्यामपि नो यामि विना च प्रियदर्शनाम् । मातुलं तद्विशालायां धनदत्त व्रजाम्यहम् ॥१८६॥ तस्माद्विभवमादाय भिल्लभ ः प्रदाय च। मोचयामि प्रियां तस्माद् मृगिकां मृगयोरिव ॥१८७॥ समय॑ द्रविणं भूयो भूयोभिर्व्यवसायकैः। मातुतुरहं दास्ये का प्रपा मेऽत्र कर्मणि? ॥१८८॥ मत्वेत्येष विशालायामचलद् निजमातुलम् । गत्वा गिरिस्थलं यक्षधाम्नि चोषितवान् निशि ॥१८॥ एकस्तत्रामिलत् पान्थस्तस्य तं पृष्टवांश्च सः। कुतोऽभ्यागाद् ? विशालाया इत्यध्वन्योऽभ्यधादसौ ॥१९॥ श्रुत्वेति वचनं हृष्टः पृष्टवान् पथिकं पुनः। धनदत्ताभिधस्यास्ति कुशलं मातुलस्य मे ॥१९॥ अध्वनीनोऽभिधत्ते स्म बन्धुदत्तं मुदश्चितम् । धनदत्तोऽगमद् ग्रामं व्यवसायार्थमन्यदा ॥१९२॥ तस्य ज्येष्ठसुतः स्वीयपन्या क्रीडनिरशः । अवाशासीद् मदोन्मत्तो भूपं गच्छन्तमग्रतः ॥१९३॥ तदवशां च विज्ञाय चुकोप क्षितिपस्तदा । अवज्ञा हि क्षितीशानां कोपाग्नाविन्धनायते ॥१९४॥ भूपेन यमरूपेण क्रोधेन निदधेऽथ सः । सकुटुम्बो महाकारागृहे निगृह्य च पुनः ॥१९५॥ आगाद् धनोऽथ विशातप्रवृत्तिः स्वाङ्गजन्मनः । सकुटुम्बं सुतं राशे दत्त्वा दण्डममोचयत् ॥१९६॥ तद्धनार्थ घनदत्तो बन्धुदत्तं स्वसुः सुतम् । प्रतियाचयितुं नागपुऱ्या ह्योऽचलदालयात् ।।१९७॥ निशम्यैवं बन्धुदत्तो ध्यातवान् स्वे मनस्यदः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy