SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रे दुर्वचांसीव पिशुनैर्मुञ्चद्भिर्बाणधोरणिम् । भिल्लैस्तैर्जगृहे बन्धोः सर्वस्वं प्रियया समम् ॥१४९०. अस्या दास्या च तस्याग्रे प्रोचे चकितचेतसा । कौशम्न्यां जिनदत्तस्य सुतैषा प्रियदर्शना ॥१५०॥ पापाता । समाकयेति पल्लोशः सशल्य इव मूञ्छितः। लब्धसंज्ञो जगौ भ्राम्यदर्शनां प्रियदर्शनाम् ॥१५१॥ मत्तो मा त्वं भयं काढुर्भद्रेऽसि भगिनी मम । यदपारोपकारैकक स्त्वमसि पुत्रिका ॥१५२॥ शृणु सुभु ! पुरा कुरैस्तस्करैः परिवारितः । कौशम्ब्यामगमं चौर्य कृत्वा च बहिरागमम् ॥१५३॥ प्रकुर्वन् मधुनः पानं सोपानं व्यसनौकसः। कोट्टपालैरहं दृष्टो धृत्वा बद्धश्च बन्धनैः ॥१५४॥ नीयमानो वधायाऽहं तैरधानयनस्ततः । त्वपित्रा जिनदत्तन दृष्टः पथि दयालुना ॥१५५॥ ततो विज्ञप्य विक्षप्य पुरस्तात् पृथिवीपतेः। मोचितोऽहं वधात् तेन स्वात्मा चापि भवभ्रमात् ॥१५६॥ किङ्करवत् किं करोमि कृत्यं तव भगिन्यतः ?। इत्युक्ता सा जगादैनं चण्डसेनं पुरःस्थितम् ॥१५७॥ वियोजितं भवद्भिल्लैवल्लभं मम मेलय । पतिव्रताया यत् पत्युः प्रतिपत्तिः परं धनम् ॥१५८० चण्डसेनोऽथ तां स्वान्त स्वसारमिव संविदन् । गवेषणाय तद्भर्तुर्निर्ययौ स्थानतः स्वयम् ॥१५९॥ परिभ्रमन् गिरेः तुण्डे कन्दरे काननेऽध्वनि । नाऽपश्यद् बन्धुदत्तं स घनाच्छादितचन्द्रवत् ॥१६०॥ अप्राप्तबन्धुदत्तः स आययौ स्वनिकेतने । बन्धुदत्तप्रियासाक्षं प्रतिक्षामकरोदिति ॥१६॥ बन्धुदत्तं नाऽऽनयामि षण्मासान्तरेऽहं यदि । प्रविशामि तदा ज्वालाजिह्वे ज्वालाकरालिते ॥१६॥ प्रतिक्षायेति पल्लीराड भिल्लान स्वीयानितस्ततः । प्रेषयामास तद्भर्तुर्गवेषणकृते द्रुतम् ॥१६३॥ पुलिन्दाः कलिनीकूलशैलपल्वलमूमिषु । बन्धुं गवेषयामास रजसीव महामणिम् ॥१६४॥ म्रान्त्वा भ्रान्त्वाऽनिशं खिन्नास्तथाप्यापुर्न तेऽथ तम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy