________________
YMANENENENEYENENKNKNEXANENENIYE
है प्रस्तावना
इह खलु विदाकुर्वन्तु ततो भवन्तो वेदशास्त्रवेदाङ्गपाथोधिनिर्मन्थनोद्धृतसारसद्रत्नकण्ठाऽभरणाः यत्किल निगमागमाद्य. भितैहिकाऽमुष्मिकसत्फलसाधकसाधीयांसो यागादिव्यापारा अन्तरेण सुसमयारम्भं न पूरयन्ति मनोरथान विदधत इत्यवगम्य प्राचीना महर्षिदेवज्ञा ज्योतिषेऽनेकान्सुविषयविभूषितान् प्रन्थान्व्यररचन, तेषु विषयविभागाश्च भूयासः सन्ति । परमत्र "कृते जयार्णवं नाम त्रेतायां ब्रह्मयामलम् । द्वापरे विजया ख्याता कलौ चैव स्वरोदयः ॥” इति महदुक्तेः कलौ स्वरोदयस्याधिकफलप्रदत्वात्सत्स्वपि ग्रन्थान्तरेषु ततस्ततः क्लिष्टत्वादिकारणैः सिद्धान्तस्याऽसुखग्राह्यत्वाच परमकारुणिकेन 'नरपती' त्यभिधानभूषितकविवरेणायं " नरपतिजयचर्या " नामको ग्रन्थो निरमायि । सच प्रश्नविविधयुद्धभूम्यादिवर्णनविषयात्मकः परोपकारमभीप्सुना ' हरिवंश' नामककविवरेण स्वरचित 'जय-2
लक्ष्मी' नामटीकया सतिलकीकृतः चिराय मुद्रयितुमभीप्सितोA ऽपि सम्प्रति समुपलब्धत्रिचतुःपुस्तकैश्शास्त्रिभिः संशोध्य स्वहै कीये " श्रीवेङ्कटेश्वर" यन्त्रालये स्वच्छमसणपुष्टपत्रैः सुशो.
भनाक्षरैस्समुद्रितः सर्वाभीष्टप्रदानायोन्मुखो विराजतेतराम् ।।
NAAMKARANIK
विद्वजन कृपाकांक्षी
क्षेमराज-श्रीकृष्णदासः "श्रीवेङ्कटेश्वर" स्टीम-यन्त्रालयाध्यक्षः-बम्बईस्थः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com