________________
यशोभिर्दिङ्नागान् व्यजयत मरालं च गतिना, सुभक्त्या तं बन्दे विजयकमलाचार्यमनिशम् ॥४॥
. हिमक्ष्माभृत्पुत्रीचरणनतभूतेशमुकुट-... पतद्गङ्गाधाराभरधवलबालेन्दुकररुक् ।
यशो विश्वे यस्य स्फुरति सततं तं श्रुतनिधि, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥५॥
सुरालीसंकल्पस्फुरदमरधेनुस्तनयुग- . क्षरत्क्षीरश्रेणीरुचिरुचिरमाभाति वचनम् ।
यदीयं विश्वेऽस्मिन् सकलसुखसन्तानजननं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥६॥
शिवास्वामिस्फूर्जन्मुकुटरजनीनाथकिरणवितानोद्योतिश्रीस्फटिकशिखरस्पर्द्धि सुतराम् । __ यशो यस्यात्यन्तं धवलयति दिङ्नागनिकर, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥७॥
नवीनादित्यांशुस्फुटबलभिदाशाक्षितिधरशिरःस्मेराशोकाङ्कुनिकरविभ्राजि जगति ।
पुनीते भव्यान् यच्चरणकमलद्वन्द्वममलं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥८॥
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFEFEEEEEEEEEEEEEEFFEEEEEE
“ गुणश्रीपाथोधेरमरविजयस्याऽमलमतेः, क्रमाम्भोरुट्सेवाकरणचतुरो हृष्टहृदयः ।
हयाश्वाकेन्द्रद्वे(१९७७)चतुरविजयः पावनहृदोऽकृताऽऽचार्यस्य श्रीविजयकमलस्याऽष्टकमिदम् ॥ ९॥" .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com