________________
कुडनीमतम् ।
न च पत्तयो न सतिन च पोष्यजनस्तथाप्यसन्तुष्टः । लभमानेऽपि सदाऽयं चिरन्तनत्वाभिमानेन ॥ ९३३ ॥ विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः । तूष्णीं क्रियतामस्माच्छोष्यसि कार्य प्रतीहारात् ॥९३४॥
सेवकान् प्रति नानाप्रकाराः मिथ्यासान्त्वनादियुक्ताः उक्ती: अनुवदति कृतेत्यादिभिः सप्तभिः । हे वेतनवृद्धयभिलाषिन् सेवक, कृता जीवनस्य वृत्ते: संस्था व्यवस्था यस्य तादृशोऽपि त्वं किमर्थ विज्ञप्तिं वेतनादिवृद्धयै प्रार्थनां, करोषि । मया वेतनवृद्धिर्न कार्या इति भावः । यदि नेच्छसि एवं सति यदि सेवां कर्तु इच्छा नास्ति, तदा अर्पय भृत्यत्वं त्यज इत्यर्थः । सोत्प्रासं वदति कुरु इति । ततश्च मत्सेवामुखं परित्यज्य, ] हस्तदानेन करार्पणेन [ ' मजुरी । इति भाषायां प्रसिद्धेन, स्थितिं कुरु स्वजीवननिर्वाहं अवलंबस्व ॥ ९३२ ॥ उच्चश्रेणिं कंचित्सेवकं वेतनवृद्धिं प्रार्थयन्तं उद्दिश्य निकटस्थान् अन्यानाह नेति । अस्य न पत्तयः पदातयः 'सिपाही' इति भाषायां व्यवहृताः, विद्यंते, न च सप्तिः अश्वः, नापि पोष्यः भरणीयः जनः स्त्रीपुत्रादि: विद्यते, इदं सर्व सोत्प्रासमुक्तं; तथापि अयं सेवकः, लभमाने वस्रवेतनादौ मत्त: प्राप्यमाणे वस्तुनि, सदा सर्वदा, असंतुष्टः न अलंबुद्धिः, अधिकाधिकवाञ्छः लोभी स: इति भावः । तत्र कारणमाह चिरंतनेति, चिरकालीनोऽहं भत्यः इति अभिमानेन अहंकारेण आग्रहेण वा। अनुचितोऽस्य वेतनवृद्धयभिलाष इति भावः । 'लभमानोऽपि स दायंः इति पाठे स] दायं दानं [प्रीतिदानं इति यावत्, चिरंतनत्वाभिमानेन मत्सकाशात् प्राप्नुवानोऽपि इत्यर्थः ॥ यद्वा · लभमानोऽपि सहायं' इति मूलपाठः स्यात् , स च सरलार्थकः ॥ ९३३ ॥ अन्यः सेव्यः अन्यं सेवकं वदति विज्ञप्तीति । भवतः तव, विज्ञप्तिकोन्मुखत्वं वेतनवृद्धथै विजिज्ञापयिषा, दूरत एव त्वां आगच्छन्तं दूरे एव दृष्ट्वा, अवधारितं मया निश्चितम् । अतः तूष्णीं क्रियतां ते वक्तव्यं मया अनुमानेन ज्ञातमेव ततः तद्विषये मूको भव, अपि च यत् कार्य मया आज्ञापनीयं त्वया च निर्वर्तनीयं कर्म तत्, अस्मात् प्रतीहारात् "द्वारि द्वा:स्थे प्रतीहारः” इति विश्वलोचनः, ('प्रतिहारः । इत्यपि क्वचित् रूपं, ) तस्मात् द्वारपालात्, त्वं श्रोष्यसि आकर्णयिष्यसि । मूकः सन् आज्ञप्तं कार्य इदानीं कुरु,
९३३ पत्तयो न च पतिर्न च पोष्यजनस्तथापि संतुष्टः (स्तं) । लभमानेऽपि (का) लभमानोऽपि सदाऽयं (स्तं) ९३४ मस्मान् श्रोष्यसि (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com