________________
कुट्टनीमतम् ।
२१७
लेशाय दुर्भगानां मानस्तुतिगात्रभङ्गविन्यासम् । गणिकाभिनयचतुष्टयमाकृष्टयै स्वापतेयपुष्टानाम् ॥ ६५७ ॥ किं धक्ष्यति भौमोऽपि ज्वलनः खलु तादृशं कुलाङ्गारम् ।
यो दह्यते न विरसं विरक्तदासीतिरस्कारैः ।। ६५८॥ केवलं रूपस्य कटाक्षपातस्य वा अवलोकनेन चलितचित्तैः, पुरुषैः, कथं आक्षेपे, वंच्यते प्रतार्यन्ते, न कथमपि इत्यर्थः। तथा चोक्तं-"आचार्ये च नटे धूर्ते तर्कशे च चिकित्सके । तत्र माया न कर्तव्या माया तैरेव निर्मिता ॥” इति ॥ ६५६ ॥ गणिकाव्यापाराणां सधननिर्धनविषये फलभेदमाह क्लेशाय इति । गणिकानां, अभिनीयते प्रकाश्यते भावः येन स: अभिनय:, तस्य चतुष्टयं “भवेदभिनयोऽवस्थानुकारः, स चतुर्विधः । आंगिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा ॥" (६।२) इति साहित्यदर्पणे, तत्र शिरोहस्तोरःपार्श्वकटिपादलक्षणैः षडंगैः नेत्रभ्रूनासिकाधरकपोलचिबुकरूपैः षडुपाङ्गैः च निष्पन्न: आंगिकः, वाचा निष्पन्नः वाचिकः, वेषरचनादिनिष्पाद्यः आहार्यः, स्तंभस्वेदादिरूपः सत्त्वविकारोद्भव: सात्त्विकः । तच्चतुष्टयं उपलक्षणैः आह मानस्तुतिगात्रभंगविन्यासं इति, मान: अभाषणाद्युपलक्षितः स्त्रीगर्वः सात्त्विकः, स्तुति: गुणकीर्तनात्मकः वाचिकः, गात्रभंग: कटाक्षभ्रभंगादिरूपः आंगिकः, विन्यास: योग्यतया भूषणादीनां स च आहार्यः, तत्, दुर्भगानां दुष्टं भगं भाग्यं येषां तेषां दरिद्राणां इति यावत् , क्लेशाय दुःखाय दातृत्वशक्तेरभावात्, भवतीति शेष: । तदेव स्वापतेयपुष्टानां ] स्वपतौ [धनस्वामिनि ] साधु [हितं ] स्वापतेयं धनं, [ तेन पुष्टानां प्रभूतधमवतां इत्यर्थः, आकृष्टयै चित्तवित्तादिहरणाय, तादर्थं चतुर्थी, भवति । " विषं वेश्या दरिद्राणां" इति भावः, तेन तादृशैः सा शीघ्रं वर्जनीया इति सूच्यते । ६५७ ॥ तिरस्कारेऽपि तदनुयायिनं आक्रोशति किमिति । दासी वेश्या । विरसं विगत: रस: आर्द्रता रागश्च यथा स्यात् तथा, न दह्यते संतप्तान्त:करणो भूत्वा परिशेषितस्नेहलवं अपि न मुच्यात् इति भावः, तेन च तां न त्यजेत् इति ध्वनिः; तादृशं कुलांगारं-अंगार: सामिकं दग्धकाष्ठखंडं, रूपकं, कुलदाहक इत्यर्थः; भौम: पार्थिवदिव्यौदर्यभेदैः त्रिविधस्य अनेः आद्यो भेद: काष्ठेन्धनप्रभवः, ज्वलन: अमिः तं मृतमपि इति शेष:, किं धक्ष्यति दग्धुं समर्थः भविष्यति किं, काका नैव इति प्रतिपत्ति: । खलु इति
६५७ दुर्गतानां (१)। नान्यस्थिति गात्र० (प)। विन्यासः (का)६५८ किं वक्ष्यति भूयोऽपि (५) । ज्वलनस्तं तादृशं (१) [अपुष्टार्थः पाठः) । दह्यते विरामं () दह्यतेऽतिविरसं ( कापा) । विदग्धदासी (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com