________________
शतावधानी शीघ्र कवि मुनि महाराजश्री रत्नचन्द्रजीए पेल अभिप्रायो,
काव्यशास्त्र संबंधी अभिप्राय.
" साहित्य संगीत कलाविहीनः साक्षात्पशुपुच्छ विषाण हीनः "
एतत्पद्य निर्माणसमये साहित्यस्या दरः कियत्परिमितः स्यात्तत् साहित्यज्ञानविहीनानां पशुरूपतया गणनयैव ज्ञायते यदि जनानां पशुत्वविलक्षणं मनुष्यत्वं प्रापणीयं स्यात्तर्हितैः साहित्य संगीतकलाः संपादनीया तेष्वपि साहित्यस्य प्राथम्यं यद्दर्शितं तत्तस्य प्रधानतारव्यापनार्थम् ॥
काव्यप्रकाश रसगंगाधर साहित्य दर्पण काव्यानुशासन काव्यप्रदीप प्रभृतयः शतशोग्रन्थाः संस्कृतभाषायां कविप्रिया रसिकप्रिया रावणेश्वर कल्पतरू प्रभृतयोऽनेकेग्रन्था हिन्दीभापायां विद्यमानाऽपि गूर्जरभाषायां तन्न्यूनतादृश्यते ॥
सांप्रतं जीविका संपादनार्थं राजकीयांग्लादिभाषाभ्यासकरणे समय शक्त्योः परिहासेन बहुलाजनाः गहन संस्कृतगिराध्ययनं कर्त्तुं न शक्नुवन्ति येन संस्कृतवाणीनिर्मित साहित्यशास्त्र रसास्वादं लभेरन् ॥
एकतः कविपदधारणेन निजख्यापनवृत्युत्कटता अपरतथ मातृभाषानिबद्ध साहित्यसामग्री - श्रभावेन रसालंकारादि काव्य विज्ञाना भावः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com