________________
८८
करुणरसकदम्बकम् सद्भोगलीला न च 'रोगकीला, धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ॥२०॥ स्थितं न साधोर्हदि साधुवृत्तात् , परोपकारान्न यशोऽर्जितं च । कृतं न तीर्थाद्धरणादिकृत्यं, मया मुधा हारितमेव जन्म ॥ २१ ॥ वैराग्यरङ्गो न गुरूदितेषु, न दुर्जनानां वचनेषु शान्तिः ।। नाऽध्यात्मलेशो मम कोऽपि देव! तार्यः कथङ्कारमयं भवाब्धिः ॥२२॥ पूर्वे भवेऽकारि मया न पुण्यमागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा, भूतोद्भवद्भाविभवत्रयीश ! ॥ २३ ॥ किं वा मुधाऽहं बहुधा सुंधाभुक्पूज्य ! त्वदने चरितं स्वकीयं । जल्पामि यस्मात् त्रिजगत्स्वरूपनिरूपकम्त्वं कियदेतदत्र ॥ २४ ॥ दीनोद्धारधुरंधरस्त्वदपरो, नास्ते मदन्यः कृपा
पात्रं नाजने जिनेप्वर ! तथाप्येतां न याचे श्रियम् । किं त्वर्हन्निदमेव केवलमहो सद्बोधिरत्नं शिवं, श्रीरत्नाकर ! मंगलैकनिलय ! श्रेयस्कर प्रार्थये ॥ २५ ॥
–श्रीरत्नाकरपञ्चविंशतिका
इतिश्री करुणरसकदम्बके संस्कृतः
प्रथमखण्डः समाप्तः ।
१ रोगा एव कीलकाः । २ मृत्योः । ३ कारागाराणि । ४ देवाः । ५ इह लोके । ६ द्रव्यसम्पदम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com